SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ४ नीतिवाक्यामृते rrrrrrrrrrrrn. अथवा पितृपैतामहिकेऽपि राज्ये प्राप्ते पराक्रमं त्यक्त्वा भीरुत्वं प्रतिगृह्णाति तस्यापि राज्यस्य परिणामः परिणतिर्दुष्करा भवति । कोर्थः ? राज्यभ्रंशो भवतीति । तथा च नारदः पराक्रमच्युतो यस्तु राजा संग्रामकातरः अपि क्रमागतं तस्य नाशं राज्यं प्रगच्छति ॥१॥ अथ क्रमविक्रमयोरधिष्ठानं राजा यथा भवति तथाहक्रमविक्रमयोरधिष्ठानं बुद्धिमानाहार्यबुद्धिर्वा ॥ ३० ॥ टीका-यो बुद्धिमान् राजा भवति स क्रमविक्रमयोरधिष्ठानं स्थानं भवति । आहार्यबुद्धिर्वा तथा आहार्यबुद्धिर्यो भवति सोऽपि क्रमविक्रमयोरधिष्ठानं भवति । आहार्या बुद्धिर्यस्यासौ आहार्यबुद्धिः। अमात्यदत्तोपदेश इत्यर्थः । तथा च शुक्र: स बुद्धिसहितो राजा नीतिशौर्यगृहं भवेत् । अथवामात्यबुद्धिस्तु बुद्धिहीनो विनश्यति ॥ १ ॥ अथ बुद्धिमान् यथा राजोच्यते तदाहयो विद्याविनीतमतिः स बुद्धिमान् ॥ ३१ ॥ टीका—यो शास्त्रानुगतबुद्धिर्भवति स बुद्धिमान् न शिल्पादिभिर्यथा प्राकृतो जनः । तथा गुरुः-- शास्त्रानुगा भवेद्वद्धिर्यस्य राज्ञः स बुद्धिमान् ।। शास्त्रबुद्धया विहीनस्तु शौर्ययुक्तो विनश्यति ॥१॥ अथ शास्त्ररहितबुद्धेः शूरस्यापि नृपस्य यद्भवति तदाहसिंहस्येव केवलं पौरुषावलम्बिनो न चिरं कुशलम् ॥३२॥ टीका-शास्त्ररहितस्य केवलं पौरुषयुक्तस्य चिरं प्रभूतकालं कुशलं न भवति केनापि वध्यते दुष्टोऽयमिति । तथा च शुक्रः १ 'नय' पुस्तके पाठः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy