SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विद्यावृद्धसमुद्देशः । टीका - आचारो लोकव्यवहारस्तेन वर्तमानस्य नयवृद्धी राज्यवृद्धि भवति । तथा त्र शुक्रः लौकिकं व्यवहारं यः कुरुते नयवृद्धितः । तदूवृद्धया वृद्धिमायाति राज्यं तत्र क्रमागतं ॥ १ ॥ अथ यथा विक्रमस्यालङ्कारो भवति तदाह अनुत्सेकः खलु विक्रमस्यालङ्कारः ॥ २८ ॥ टीका - अनुत्सेकशब्दे नागर्वोऽभिधीयते स विक्रमस्य शोभां जनयति । न कनकार्दिभूषणं । तथा च गुरुः ५३ भूषणैरपि संत्यक्तः स विरेजे विगर्वकः । सगर्यो भूषणाढ्योsपि लोकेऽस्मिन् हास्यतां व्रजेत् ॥ १ ॥ योऽमात्यान्मन्यते गर्वान्न गुरून् न च बान्धवान् । शूरोऽहमिति विज्ञेयो त्रियते रावणो यथा ॥ २ ॥ अथ भूपस्य राज्यलाभो यथा भवति तदाह-क्रमविक्रमयोरन्यतरपरिग्रहेण राज्यस्य दुष्करः परिणामः २९ टीका — क्रमविक्रमयोरन्यतरपरिग्रहेणैकतमस्वीकारेण राज्यस्य दुष्करो न शक्यते परिणामः परिणतिः । एतदुक्तं भवति पराक्रमरहितं क्रमागतं पितृपैतामहकमपि राज्यं विनश्यति । यदि बलेन परराज्यं गृहीतं परिणामं न याति भूयोऽपि तथा कार्य, क्रमेण यथा गच्छति । तथा च शुक्रः राज्यं हि सलिलं यद्वद्यद्बलेन समाहृतं । भूयोऽपि तत्ततोभ्येति लध्वाकालस्य संक्षयं ? ॥ १ ॥ १ अस्य स्थाने ' नयवृद्धिर्द ' इति पाठः पुस्तके | २ अन्यतमेति पाठः मुपुस्तके सोपि समीचीन एव । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy