________________
५२
नीतिवाक्यामृते
कुटीचरस्य रूपेण ब्रह्मभिक्षाकृताशनः । बव्होदकः स विज्ञेयो विष्णुजापपरायणः॥२॥ एकरात्रं वसेद्रामे स्थाने चैव त्रिरात्रकं । दण्डभिक्षां चरेत्तत्र पुटिकां वा समाचरेत् ॥ २॥ विप्राणामावसर्थेषु विधूमेषु गताग्निषु। हंसस्य जायते ज्ञानं यदा स्यात्परमो हि सः ॥ ४ ॥ चतुर्वर्णप्रभोक्ता स्यात्स्वेच्छया दण्डधृत्तदा । सर्वारम्भपरित्यागो भैक्षास्य वृक्षमूलतः ॥५॥ निष्परिगृहीताद्रोहः समता सर्वजन्तषु । प्रियाप्रियापरिष्वगः सुखदुःखाविकीरिता ॥६॥ सबाह्याम्यन्तरं शौचं वाङ्मनोव्रतचारिता। सर्वेन्द्रियसमाहारो धारणा ध्याननित्यता ।। ७ ॥
भावसंशुद्धिरित्येषा परिवाइधर्म उच्यते । चतुर्विधयतिसमुद्देशः । अथ राज्यस्य मूलं यद्भवति तदाह- . राज्यस्य मूलं क्रमो विक्रमश्च ॥ २६ ॥ ___टीका-क्रमशब्देन पितृपैतामहिक राज्यमुच्यते । विक्रमः शौर्य । एतत् वृक्षस्येव राज्यमूलं । यथा वृक्षेण मूलेन सता सर्वशाखादिपुष्पफलं भवति तथा च राज्यस्य क्रमविक्रमाभ्यां सहितस्य सर्व हस्त्यश्वधनधान्यादिकं भवति । तथा च शुक्रः
क्रमविक्रममूलस्य राज्यस्य तु यथा तरोः।
समूलस्य भवेद्वद्धिस्ताभ्यां हीनस्य संक्षयः ॥१॥ अथ यथा क्रमसम्पत्तिर्भवति तथाह--
आचारसम्पत्तिः क्रमसम्पत्तिं करोति ॥ २७॥
१ राज्यमूलं मु-पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org