________________
विद्यावृद्धसमुद्देशः।
इति चतुर्विधवानप्रस्थसमुद्देशः । अथ यतिलक्षणमाह
यो देहमात्रारामः सम्यग्विद्यानौलाभेन तृष्णासरित्तरणाय योगाय यतते यतिः॥२४॥
टीका -यो देहमात्राराम: शरीरमात्रेणात्मनं रमते नान्यत्किचिदानन्दार्थ विलोकयति । सम्यग्विद्याशब्देन ज्ञानमभिधीयते सा एव नौर्यानपात्रं तामभ्यस्यन् संसारनदीपारगमनाय यो योगस्तदर्थ यतते यत्नं करोति स यतिः । तथा च हारीत:
आत्मारामो भवेद्यस्तु विद्यासेवनतत्परः ।
संसारतरणार्थाय योगभाग्यतिरुच्यते ॥ १ ॥ अथ चतुर्विधयतिलक्षणं* कुटीरकबव्होदकहंसपरमहंसा यतयः ॥ २५ ॥ टीका-त्रिदण्डी सशिखी यस्तु ब्रह्मसूत्री गृहच्युतः।
सकृत् पुत्रगृहे स्नाति यो यतिः स कुटीचरः ॥ १॥ * यतिभेदप्रतिपादकं सूत्रं टीकाका विरचितं, नेदं सूत्रं मु-लि-मूल पुस्तके । जैनमतानुसारेण तु यतीनां इमे चत्वारो मेदाः । भिक्षवो जिनरूपधारिणस्ते बहवो भवन्ति । अनगारा यतयो मुनय ऋषयश्चेति। तत्रानगाराः सामान्यसाधव उच्यन्ते । यतय उपशमक्षपकश्रेण्यारूढा भण्यन्ते । मुनयोऽवधिमनःपर्ययकेवलज्ञानिनश्च कथ्यन्ते । ऋषयः ऋद्धिप्राप्तास्ते चतुर्विधा राजब्रह्मदेवपरमभेदात् । तत्र राजर्षयो विक्रियाक्षीणऋद्विप्राप्ता भवन्ति । ब्रह्मर्षयो बुद्धयौषधिऋद्धियुक्ताः कीर्त्यन्ते। देवर्षयो गगनगमनर्द्धिसंयुक्ताः कथ्यन्ते । परमर्षयः केवलज्ञानिनो निगद्यन्ते । अपि च
देशप्रत्यक्षवित्केबलभृदिह मुनिः स्यादृषिः प्रोद्तर्द्धिरारूढश्रेणियुग्मोऽजनि यतिरनगारोऽपरः साधुरुक्तः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाऽक्षीणशक्तिप्राप्तो बुद्धयौषधीशो वियदयनपटुर्विश्ववेदी क्रमेण ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org