SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ५० नीतिवाक्यामृते यः खलु यथाविधि जानपदमाहारं संसारव्यवहारं च परित्यज्य सकलत्रोऽकलत्रो वा वने प्रतिष्ठते स वानप्रस्थः ॥२२॥ टीका-यो गृहस्थः सन् खलु निश्चयेन विधिमनुष्ठानं, जानपद लोकसंभवं ग्राम्यभोजनाच्छादनादिकं तथान्यदपि सांसारिक चतुष्पदादिपुत्रपौत्रादिकं सर्व परित्यज्य सकलत्रः सपत्नीको विकलत्रो वा वनं गच्छति वानप्रस्थः । तथा च देवल:-- सकलत्रोऽथवाप्येको गृहस्थो यो वनं व्रजेत्। त्यक्तग्राम्यविधिः सर्बो वानप्रस्थः स उच्यते ॥१॥ जटित्वमग्निहोतृत्वं भूशय्याजिनधारणं । वने वासः पयोमूलनीवारफलवृत्तिता ॥२॥ प्रतिग्रहनिवृत्तिश्च त्रिःस्नानं ब्रह्मचारिता देवतातिथिपूजा च धर्मोयं वनवासिनः ॥३॥ अथ चतुर्विधस्य वानप्रस्थस्य लक्षणमाह * वालिखिल्य औदम्बरी वैश्वानराः सद्यःप्रक्षल्यकश्चेति वानप्रस्थाः ॥ २३॥ टीका-अरणी केवलां गृह्य विभार्यो यो वनं व्रजेत् । जुहूयान्नूतनं वन्हि वालिखिल्यो वनेचरः ॥१॥ सभार्यो यो वनं गच्छेत् गृहीत्वा वन्हिपंचकं। औदुम्बरः स विज्ञयो वानप्रस्थो मनीषिभिः ॥२॥ कन्दमूलकलाशास्त्रिकालं स्नानमाचरेत । साग्निकस्तिथिपूजाठ्यः स च वश्वानरः स्मृतः ॥ ३ ॥ यावन्मात्रं भवेन्द्भोज्यं तावन्मात्रमुपार्जयेत् । नीवाराज्यं च साग्नीकः सद्यःप्रक्षालको भवेत् ॥ ४ ॥ १ परमतानुसारेणेदं लक्षणं विज्ञायते । जनमतानुसारेण स्विदं 'वानप्रस्था अपरिगृहीतजिनरूपा वस्त्रखण्डधारिणो निरतिशयतपःसमुद्यता भवन्ति ।चारित्रसारे । * इदं चिन्हांकितं सूत्रं. मु-मू-पुस्तके नास्ति परं टीकाकर्तुरिदं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy