________________
विद्यावृद्धसमुद्देशः।
एकाग्निमाहरेद्यस्तु श्रद्धया परया युतः। वैवाहिकः स विशेयो वर्तमानगृहे स्थितः ॥१॥ अग्निहोत्रपरो यस्तु केवलं यजनं विना । शालीनः स च विशेयः पंचवैश्वानरार्चनात् ॥ २ ॥ एकवन्हिपरो वाथ पंचवन्हिपरोऽपि वा। यः शूद्रार्थं न गृह्णाति शुक्लो जायावरो हि सः ॥ ३ ॥ अग्निष्टोमादिभिर्यज्ञैर्यजते यः सदक्षणैः ।
अघोरः स च विज्ञेयः सौम्यरूपवपुर्धरः ॥ ४ ॥ इति चतुर्विधगृहस्थसमुद्देशः । अथ वानप्रस्थलक्षणमाह--
प्रतीतं । ऐन्द्रध्वज इंद्रादिभिः क्रियमाणः। बलिस्नपनं सन्ध्यात्रयेऽपि जगत्त्रयस्वामिनः पूजाभिषेककरणं । पुनरप्येषां विकल्पा अन्येऽपि पूजाविशेषाः सन्तीति । वार्तासिमषिकृषिवाणिज्यादिशिल्पकर्मभिर्विशुद्धवृत्याऽर्थोपार्जनमिति । दत्तिर्दयापात्रसमसकलभेदाच्चतुर्विधा । तत्र दयादतिरनुकम्पयाऽनुग्राह्येभ्यः प्राणिभ्यः त्रिशुद्धिभिरभयदानं । पात्रदतिर्महातपोधनेभ्यः प्रतिग्रहार्चनादिपूर्वकं निरवद्याहारदानं ज्ञानसंयमोपकरणादिदानं च । समदत्तिः स्वसमक्रियाय मित्राय निस्तारकोत्तमाय कन्याभूमिसुवर्णहस्त्यश्वरथरत्नादिदानं । स्वसमानाभावे मध्यपात्रस्यापि दानं । सकलदत्तिरात्मीयस्वसन्ततिस्थापनार्थं पुत्राय गोत्रजाय वा धर्म धनं च समर्य प्रदानं, अन्वयदत्तिश्च सेव। स्वाध्यायस्तत्वज्ञानस्याध्ययनमध्यापनं स्मरणं च । संयमः पंचाणुव्रतप्रवर्तनम् । तपोऽनशनादिद्वादशविधानुठानम् । इत्यार्यषट्कर्मनिरता गृहस्था द्विविधा भवन्ति जातिक्षत्रियास्तीर्थक्षत्रियाश्चेति । तत्र जातिक्षत्रियाः क्षत्रियब्राह्मणवैश्यशूद्रभेदाच्चतुर्विधाः। तीर्थक्षत्रियाः स्वजीवनविकल्पादनेकधा भिद्यन्ते ।
जैनमतानुसारेण गृहस्थानां विकल्पा उक्तप्रकारेण प्रतिपत्तव्याः। नेदं गृहस्थभेदप्रतिपादकं सूत्रं मु-लि-मूलपुस्तके। अस्य ग्रंथस्य टीकाकर्ता कश्चिदजैनविद्वानस्तीति निश्चितं । अतस्तेन स्वमतानुसारेण बहूनि सूत्राणि विरचय्य संयोजितानि । तानि च तत्र तत्र निवेदयिष्यामः ।
नीति०-४ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org