SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते अथ नित्यानुष्ठानस्य लक्षणमाहब्रह्मदेवपितृतिथिभूतयज्ञा हि नित्यमनुष्ठानम् ॥ १९ ॥ टीका---यत्स्वशक्त्या ब्रह्मणः पूजा क्रियते तथाभीष्टदेवतार्च तथा पितृतर्पणं तथा कालप्राप्तब्राह्मणतर्पणं तथा भूतयज्ञः । भूतयज्ञशब्देन वैश्वदेवबलिप्रदानमुच्यते एतानि कुर्वाणो गृहस्थो नित्यानुष्ठानी भवति । तथा च वर्ग: पितृदेवमनुष्याणां पूजनं ब्राह्मणैः सह । वलिप्रदानसंयुक्तं नित्यानुष्ठानमुच्यते ॥१॥ अथ नैमित्तिकानुष्ठानस्य लक्षणमाहदर्शपौर्णमास्याद्याश्रयं नैमित्तिकम् ॥ २० ॥ टीका-दर्शशब्देनामावास्या प्रोच्यते । पौर्णमासी प्रसिद्धा एते द्वे अपि आये, प्रथमे यासां तिथीनां ता दर्शपौर्णमास्याद्यास्तासु तिथिषु । देवतासमुद्देशेन यत् क्रियते धर्मफलं तनैमित्तिक । तथा च भागुरिः-- हुतवहकमलजगिरिजागजवदनभुजंगगुहदिनेशशिवाः। दुर्गायमविश्वाच्युतमदनेश्वरचण्डिकास्थितिपतयः ॥१॥ पितरोऽमावस्यां यान्ति तिथिपूजात्र या कृता तेषां तन्नैमित्तिकं प्राह यच्चानित्यं च पर्वभवें ॥२॥ अथान्यदपि चतुर्विधगृहस्थलक्षणमाहवैवाहिकः शालीनो जायावरोऽघोरो गृहस्थाः ॥ २१॥ १ गृहस्थस्येज्या वार्ता दत्तिः स्वाध्यायः संयमः तप इत्यार्यषट्कर्माणि भवन्ति । तत्रार्हत्पूजेज्या, सा च नित्यमहश्चतुर्मुखं कल्पवृक्षोऽष्टान्हिक ऐन्द्रध्वज इति । तत्र नित्यमहो नित्यं यथाशक्ति जिनगृहेभ्यो निजगृहागन्धपुण्याक्षतादिनिवेदनं, चैत्यचैत्यालयं कृत्वा ग्रामक्षेत्रादीनां शासनदानं मुनिजनपूजनं च भवति । चतुर्मुखं मुकुटबद्धैः क्रियमाणा पूजा सैव महामहः सर्वतोभद्र इति । - कल्पवृक्षोऽर्थिनः प्रार्थिताथैः सन्तर्प्य चक्रवर्तिना क्रियमाणो महः । अष्टान्हिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy