SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ विद्यावृद्धसमुद्देशः । ४७ तेनाधीतं च यष्टं च पुत्रस्यालोकितं मुखं । नैष्ठिको वीक्ष्यते यस्तु परमात्मानमात्मनि ॥ १॥ अथ नैष्ठिकस्यात्मावलोकनेन सपुत्रवेदाध्ययनयजनानि येन कारणेन तदाह-~ अयमात्मात्मानमात्मनि संदधानः परां पूततां सम्पद्यते १७ टीका--अयं आत्मा सर्वव्यापी ब्रह्ममयो यस्तस्मिन्नात्मनि आत्मना आत्मानं चित्स्वरूपं संदधानो धारयमाणः सम्पद्यते गच्छति। कां? परां उत्कृष्टां पूततां । एतदुक्तं भवति चतुर्विधब्रह्मचर्यफलमाप्नोति । तथा च नारदः-- आत्मावलोकनं यस्य जायते नैष्ठिकस्य च । ब्रह्मचर्याणि सर्वाणि यानि तेषां फलं भवेत् ॥ १॥ इति चतुर्विध ब्रह्मचारिसमुद्देशः । अथ गृहस्थो यादृशो भवति तदाहनित्यनैमित्तिकानुष्ठानस्थो गृहस्थः ॥ १८ ॥ टीका-यो नित्यनैमित्तिकानुष्ठानं करोति स गृहस्थः नान्यो नित्यनैमित्तिकवर्जितः । अत्र नित्यानि स्वाध्यायपितृतर्पणवासुदेवपूजन स्नानदानपूर्वाणि । नैमित्तिकानि संक्रान्तिवैधृतिव्यतीपातचन्द्रक्षयपूर्वाणि । तथा च भागुरिः नित्यनैमित्तिकपरः श्रद्धया परया युतः। गृहस्थः प्रोच्यते सद्भिरशङ्गः पशुरन्यथा ॥१॥ १ स्वशरीरे सर्वव्यापी न तु सर्वजगति युक्तिविरुद्धत्वात् । २ एगो मे सासदो आदा णाणदलक्खणो । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा । ३ इत्यादिपरमागमप्ररूपिते स्वात्मवबोधे लीनो न तु ब्रह्माद्वैतोक्तब्रह्मस्वरूप-. मयः। तस्य युक्तिविरुद्धत्वात् विषयौ चेतौ मार्तडेऽवलोकनीयौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy