SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते टीका-यो ब्रह्मचारी पुत्ररहितो भवति स पितृणामृणभाजनं भवति ततश्च पुनर्नरकं प्राप्नोति । तथा च ऋषिपुत्रकः-- पिता पुत्रमुखं दृष्ट्वा मुच्यते पैतृकादृणात् । अपुत्रश्च पुनाति पुसंशं नरकं नरः॥ १ ॥ अथाध्ययनरहितस्य ब्रह्मचारिणो यद्भवति तदाहअनध्ययनो ब्रह्मणः ॥ १४ ॥ टीका-अनध्ययनो वेदरहितः स ब्रह्मणः पितामहस्य ऋणभाजनं. भवति । तथा च ऋषिपुत्रकः ब्रह्मचारी न वेदं यः पठते मौढ्यमास्थितः। स्वायंभुवमृणं तस्य वृद्धिं याति कुलीदकम् ॥१॥ अथायजनब्रह्मचारिणो यद्भवति तदाह अयजनो देवानां ।। १५ ।। * टीका--यो ब्रह्मचारी अयजनो भवति यजनं न करोति स देवानां ऋणभाजनं भवति । तथा च ऋषिपुत्रः-- नाग्नेः परिग्रहो यस्य विद्यते ब्रह्मचारिणः । ऋणभागी स देवानां जायते नात्र संशयः॥१॥ अथ नैष्ठिकस्य ब्रह्मचारिणोऽपुत्रस्यापि यद्भवति तदाहआत्मा वै पुत्रो नैष्ठिकस्य ॥ १६ ॥ टीका-वै शब्दः समुच्चये । नैष्ठिकस्य पूर्वोक्तलक्षणस्य ब्रह्मचारिण आत्मा एव पुत्रः । एतदुक्तं भवति-यथ' ऽपुत्रः पुत्रार्थ चिन्तयति पुत्रं प्राप्नोति । तथा नैष्ठिकोऽपि चात्मावलोकनपरोऽपुत्रदोषं न प्राप्नोति । पुनर्नरकं न पश्यतीत्यर्थः । तथानध्यनायजनदोषमपि न प्रामोति । तथा च ऋषिपुत्रकः__ * अस्मादने " अहन्तकरो मनुष्याणां" इत्यति पाठ उपलभ्यते मुद्रितपुस्तके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy