SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विद्यावृद्धसमुद्देशः। ४५ स नैष्ठिको ब्रह्मचारी यस्य प्राणान्तिकमदारकर्म ॥ १० ॥ टीका-यस्य ब्रह्मचारिणः प्राणान्तिकं मृत्युपर्यन्तं कलत्ररहितं क्रियाकांडं भवति स नैष्ठिकः प्रोच्यते । निष्ठाशब्देन कष्टमभिधीयते तया दीव्यति नैष्ठिकः । तथा च भारद्वाजः कलत्ररहितस्यात्र यस्य कालोऽतिवर्तते । कष्टेन मृत्युपर्यन्तो ब्रह्मचारी स नैष्ठिकः ॥१॥ अथ पुत्रस्य लक्षणमाहये उत्पन्नः पुनीते वंशं स पुत्रः ॥ ११ ॥ यः पुत्र उत्पन्नो जातः कुलं पुनीते पवित्रतां नयति स्नानदानव्रतादिभिः स पुत्रः प्रोच्यते । तथा च भागुरिः कुलं पाति समुत्थो यः स्वधर्म प्रतिपालयेत् पुनीते स्वकुलं पुत्रः पितृमातृपरायणः ॥ १ ॥ अथ कृतुपदस्य ब्रह्मचारिणो लक्षणमाहकृतोद्वाहः कृतुप्रदाता कृतुप्रदः ॥ १२॥ टीका-यो ब्रह्मचारी कृतोद्वाहः सन् ऋतुकालाभिगामी केवलं सन्तानाय भवति स कृतपदसंज्ञो भवति । तथा च वर्ग: सन्तानाय न कामाय यः स्त्रियं कामयेहतौ । कृतुपदः स सर्वेषामुत्तमोत्तमसर्ववित् ॥ १ ॥ अथापुत्रस्य ब्रह्मचारिणो यद्भवति तदाहअपुत्रो ब्रह्मचारी पितृणामृणभाजनम् ॥ १३ ॥ १ प्रथमाश्रमिणः प्रोक्ता ये पंचोपनयादयः । तेऽधीत्य शास्त्रं स्वकुर्युर्दारानन्यत्र नैष्ठिकात् ॥१॥ २ पुत्रः पुपुषोः स्वात्मानं सुविधेरिव केशवः । य उपस्कुरुते वप्तुरन्यः शत्रुः सुतच्छलात् ॥१॥ ३ नेदं सूत्रं मु-मू-पुस्तके । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy