SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते ब्राह्मणक्षत्रियवैश्यशूद्राश्च वर्णाः ॥ ६॥ ब्रह्मचारी गृही वानप्रस्थो यतिरित्याश्रमाः ॥७॥ टीका-गताथमेतत् । अथापकुर्वाणकस्य ब्रह्मचारिणो लक्षणमाहस उपकुर्वाणको ब्रह्मचारी यो वेदमधीत्य स्नायात् ॥ ८ ॥ टीका-स्नानं कुर्यात् । अत्र स्नानशब्देन यज्ञावभृथस्नानमुच्यते । एतदुक्तं भवति, वेदानपि पठित्वा तत्रस्थोऽपि विवाहं न करोति पश्चात् गुरोः सुश्रूषां करोति नान्यैर्ब्रह्मचारिभिरिव गृहं याति यज्ञावभूथमुच्यते । तत्कृत्येनोपकुर्वाणसंज्ञां प्राप्नोति । उपकुर्वाणकशब्देन यज्ञावभृथस्नानं । तथा च वर्ग: वेदानधीत्य यः कुर्याद्विवाहं यज्ञमेव वा। उपकुर्वाणकी संज्ञां ब्रह्मचारी लभेत सः ॥१॥ अथ ब्रह्मचारिण उपकुर्वाणसंज्ञा यथा भवति तदाहस्नानं विवाहदीक्षाभिषेकः ॥९॥ टीका-गतार्थमेतत् अथ नैष्ठिकस्य ब्रह्मचारिणो लक्षणमाह १ ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सप्तमे । चत्वारोंऽगे क्रियाभेदादुक्ता वर्णवदाश्रमाः ॥ १ ॥ अथवा ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । इत्याश्रमास्तु जैनानां सप्तमाङ्गाद्विनिसृताः ॥ १ ॥ २ वेओ किल सिद्धतो तस्सट्ठा णवपयत्थछद्दव्वं । गुणमग्गणठाणावि य जीवट्ठाणाणि सव्वाणि ॥१॥ उपासकाध्ययनादिशास्त्रं वा । ३ अस्यार्थः स्वयमाचार्येणोत्तरप्रबन्धेन वक्ष्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy