________________
विद्यावृद्धसमुद्देशः।
व्रतचर्यादिको धर्मो न भूपानां सुखावहः ।
तेषां धर्मः प्रदानेन प्रजासंरक्षणेन च ॥१॥ अथ राज्ञो यथा योग्यं कर्म राज्यं भवति तदाह--- राज्ञः पृथ्वीपालनोचितं कर्म राज्यं ॥ ४ ॥ टीका-राज्ञो भूपर्यत्पृथ्वीपालनोचितं योग्यं कर्म षाड्गुण्यलक्षणं तद्राज्यमुच्यते न विलासाद्यं तस्माद्भूपतिना घाड्गुण्यनिरतेन सदैव भाव्यं न केवलं विलासरतेन । तथा च वर्ग:---
पाइण्यचिन्तनं कर्म राज्यं यत्संप्रकथ्यते । न केवलं विलासाद्यं तेन बाह्यं कथंचन ॥ ११॥ यो राजा चिन्तयेन्नैव विलासकमनाः सदा।
पाडण्यं तस्य तद्राज्यं स चिरेण प्रणश्यति ॥२॥ अथ भूयोऽपि भूपतेर्यादृग्राज्यं [ शब्दः ] तदाहवर्णाश्रमवती धान्यहिरण्यपशुकुप्यवृष्टिप्रदानफला च पृथ्वी ॥५॥
टीका-न केवलं भूपतेः प्रजापालनं राज्यमुच्यते । चकाराद्वर्णाश्रमवती धान्यहिरण्यपशुकुप्यवृष्टिप्रदानफला च पृथिवी राज्यमुच्यते । वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचारिप्रभृतयस्ते विद्यन्ते यस्यां सा वर्णाश्रमवती। पुनरपि किंविशिष्टा पृथ्वी ? धान्यहिरण्यपशुकुप्यवृष्टिप्रदानफला धान्यं सस्यं, हिरण्यं द्रव्यं, पशवश्चतुष्पदाद्याः, कुप्यं सुवर्णरूप्याभ्यामन्यत् । एतेषां पदार्थानां वर्षणं वृष्टिस्तस्याः प्रदानं या करोति सा पृथिवी उच्यते । एतदुक्तं भवति--एतैः ( एतेषां ) पदार्थैः ( पदार्थानां ) या वर्षणं करोति—एते पदार्था यस्या भूमेः सकाशान्नित्यं यस्य राज्ञः समुत्पद्यन्ते तद्राज्यमिति । तथा च भृगुः
वर्णाश्रमसमोपेता सर्वकामान् प्रयच्छति ।
या भूमिभूपते राज्यं प्रोक्ता सान्या विडम्बना ॥ १॥ अथाश्रमलक्षणमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org