SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५ विद्यावृद्धसमुद्देशः। अथ राजा यादृशो भवति तदाहयोऽनुकूलप्रतिकूलयोरिन्द्रयमस्थानं स राजा ॥१॥ टीका-अनुकूले मित्रस्वरूपः प्रतिकूले शत्रुस्वरूपः । तयोर्द्वयोः शक्रधर्मराजस्थानं यथासंख्येन भवति स राजा नान्यः । तथा च भार्गवः-- वर्तते योऽरिमित्राभ्यां यमेन्द्राभः भूपतिः । अभिषेको व्रणस्यापि व्यञ्जनं पट्टमेव वा ॥ १ ॥ अथ राज्ञो यथा धर्मो भवति तदाह राज्ञो हि दुष्टनिग्रहः शिष्टपरिपालनं च धर्मः ॥ २ ॥ टीका—राज्ञो भूपतेर्योऽसौ दुष्टानां पापानां निग्रहो दण्डः । तथा शिष्टपरिपालनं च साधुजनरक्षणं च स धर्मः । नान्यो दानादिकः । तथा च वः विशेयः पार्थिवो धर्मः शिष्टानां परिपालनं। दण्डश्च पापवृत्तीनां गौणोऽन्यः परिकीर्तितः॥१॥ अथ व्रतचर्यादिभिरनुष्ठितैर्भूपतीनां न धर्मो यथा भवति तथाहन पुनः शिरोमुण्डनं जटाधारणादिकं ॥३॥ टीका-यत्पुनः शिरोमुण्डनं जटाधारणादिकं धर्मः, अन्यदपि व्रतचर्यादिलक्षणं तद्भूपतीनामधर्माय भवति । तथा च भागुरिः १ प्रतिपालनं मू-पुस्तके । २ दानाधिकः पुस्तके पाठः । ३ जटाधारणं वा मु-मू-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy