SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४० नीतिवाक्यामृते अविचार्यात्मनः शक्तिं परस्य च समुत्सुकः। यः कोपं याति भूपालः स विनाशं प्रगच्छति ॥१॥ अथ लोभो यथा भवति तदाह-- दानाहेषु स्वधनाप्रदानं परधनग्रहणं वा लोभः ॥४॥ टीका-यद्दानयोग्येषु न दीयते स लोभः कस्माद्यतो वित्तक्षतिर्भवति स तावद्वित्तलोभः । तथा परधनं यच्चौर्यादिभिर्गृह्यते लोभः स एव । तथा चात्रि: परस्वहरणं यत्तु तद्धनाढयः समाचरेत् । तृष्णायाहेषु ? चादानं स लोभः परिकीर्तितः॥१॥ अथ मानो यथा भवति तदाहदुरभिनिवेशामोक्षो यथोक्ताग्रहणं वा मानः ॥५॥ टीका-यो दुरभिनिवेशोऽव्यवहारो न शिष्टाचारस्तस्य योऽसौ अमोक्षोऽपरित्यागः स मानः । तथा यथोक्ताग्रहणं वा मानः यथोक्तं शास्त्रे शिष्टैर्यथा प्रोक्तं तन्न गृह्यते स मानः । तथा च व्यासः पापकृत्यापरित्यागो युक्तोक्तपरिवर्जनम् । यत्तन्मानाभिधानं स्याद्यथा दुर्योधनस्य च ॥१॥ अथ मदो यथा भवति तदाहकुलबलैश्वर्यरूपविद्यादिमिरात्माहंकारकरण परप्रकर्षनिबन्धनं वा मदः ॥६॥ टीका-यच्चात्मना कुलेन बलेन वाप्यैश्वर्येण रूपेण विद्यया वा अहंकारकरणं अहंकारः क्रियते । अथवैतेषां पंचानामेकतमेनापि परस्यान्यस्य प्रकर्षणं क्रियते । निबन्धनं निराकरणं च स मदः । तथा च जैमिनिः-- १ दानार्थेषु मु. । २ अकारणं परधनग्रहणं वा मु-मू. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy