________________
४ अरिषड्वर्ग-समुद्देशः।
अथ भूपतीनां शरीरस्थः शत्रुषडो यथा भवति तथाह
अयुक्तितः प्रणीताः काम-क्रोध-लोभ-मद-मान-हर्षाः क्षितीशानामन्तरङ्गोरिषदुर्गः ॥१॥ __टीका-अयुर्योन्यायेन सेविताः सन्त: काम-क्रोध-लोभ-मान-मदहर्षाः, एतेषां षण्णां वर्गः संघातोऽन्तरङ्गः शरीरस्थः शत्रुषडो वैरिलक्षणो ज्ञेयः। केषां ? क्षितीशानां । कोऽर्थः ? यच्छत्रवः कुपिता वंचिता एते इत्यर्थः ।
अथ यथा कामो दुरभिसन्धिर्भवति तदाहपरपरिगृहीतास्वनूढासु च स्त्रीषु दुरभिसन्धिः कामः ॥२॥
टीका-परैरन्यैर्या परिगृहीता वेश्यादयः, तथा या अनूढाः कुमारिकास्तासु विषये यः कामः स दुरभिसन्धिर्न सुखदो भवति । तथा च गौतमः
अन्याश्रितां च यो नारी कुमारी वा निषेवते
तस्य कामः प्रदुःखाय बन्धाय मरणाय च ॥१॥ अथ क्रोधो यथारिः संजायते तदाहअविचार्य परस्यात्मनो वापायहेतुः क्रोधः ॥३॥
टीका-~-यः परस्य शत्रोः शक्तिं न जानाति, आत्मनो वा विचार न करोति तस्यापायस्य विनाशस्य हेतुः कारणं स क्रोधः। तथा च भागुरिः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org