SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३८ नीतिवाक्यामृते अथ धर्मार्थकामानामेककालप्राप्तानां यः प्रथमं सेव्यस्तमाहधर्मार्थकामानां युगपत्समवाये पूर्वः पूर्वो गरीयान् ॥ १४॥ टीका-धर्मार्थकामनामेतेषां त्रयाणां यो पूर्वः प्रथमः स गरीयान् गुरुतरः । एतदुक्तं भवति, अर्थाद्धर्मः प्रथमं प्रोक्तः स तस्मात् प्रधानतरः, तस्मात् क्रमेण ते सेव्यास्त्रयोऽपि गृहस्थेन । कथं, सत्रिभागं प्रहरं यावत् धर्मचिन्ता कर्तव्या ततः सत्रिभागं प्रहरं यावदर्थचिन्ता ततः कामचिन्ता । तथा च भागुरिः-- धर्मचिंतां तृतीयांशं दिवसस्य समाचरेत् ।। ... ततो वित्तार्जने तावन्मानं कामार्जने तथा ॥१॥ अथ कालापेक्षया त्रयाणां मध्ये यः प्रथमं कार्यस्तदर्थमाह कालासहत्वे पुनरर्थ एव ॥ १५ ॥ * टीका-कालासहत्वात् असहिष्णुतया कालस्य धर्मादर्थो गुरुः । यतोऽर्थबाह्यो धर्मो न भवति । यदि पुनर्धर्मकामयुक्तः पुरुषो भवति तदार्थः कार्य: यतोऽर्थो मूलं धर्मकामयोस्तं विना तौ न भवतः, तस्मात्रयाणामप्येतेषामर्थो गुरुतर: सत्रिभागं प्रहरं यावदर्थश्चिन्तनीयस्ततो धर्मस्ततः काम इति । तथा च नारदः धर्मकामौ न सिध्यते दरिद्राणां कथंचन । तस्मादों गुरुस्ताभ्यां संचिन्त्यो ज्ञायते बुधैः ॥१॥ इति कामसमुद्देशः। * अस्मादने “धर्मकामयोरर्थमूलत्वात्" इत्यपि सूत्रं वर्तते मुद्रितपुस्तके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy