SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कामसमुद्देशः। ३७. टीका--नास्ति न विद्यते । किं तत्, चिकित्सितं शुभकर्मोप-- देशः। कस्य ? कामासक्तस्य पुरुषस्य । कोऽर्थः ? न किंचिद्धितं. शणोति । तथा च जैमिनिः न शृणोति पितुर्वाक्यं न मातुन हितस्य च । कामेन विजितो मर्त्यस्ततो नाशं प्रगच्छति ॥१॥ अथ स्त्रीसमासक्तस्य यद्भवति तदाहन तस्य धनं धर्मः शरीरं वा यस्यास्ति स्त्रीष्वत्यासक्तिः॥१२॥ टीका-यस्य पुरुषस्य स्त्रीविषयेऽत्यासक्तिर्भवति तस्य तावद्धनं न भवति तस्यामासक्तेर्व्यवसायं न करोति तेन विना दरिद्रता भवति । उक्तं च कामन्दकिना नितान्तं संप्रसक्तानां कान्तामुखविलोकने। नाशमायान्ति सुव्यक्तं यौवनेन समं श्रियः ॥१॥ तथा च धर्मश्च न भवति देवकृत्यस्य पितृकार्यस्य वा पुनः तथा च शरीरं न भवति, अतिवीर्यक्षयात् क्षयव्याधिश्च संजायते। तथा च वल्लभदेवः यः संसेवयते कामी कामिनी सततं प्रियां। तस्य संजायते यक्ष्मी धृतराष्ट्रपितुर्यथा ॥१॥ अथ विरुद्धकामवृत्तेर्यद्भवति तदाहविरुद्धकामवृत्तिः समृद्धोऽपि न चिरं नन्दति ॥ १३ ॥ टीका—यः पुमान् विरुद्धवृत्तिः स समृद्धोऽपि लक्ष्मीवानपि चिरकालं न नन्दति न पुनर्लक्ष्मीवान् भवति । विरुद्धकामशब्देन परदारसेवा कथ्यते तया यो वर्तत इति । तथा च ऋषिपुत्रकःपरदाररतो योऽत्र पुरुषः संम्प्रजायते । ..............॥१॥ १ क्षयरोगः । २ अस्मादग्रेतनः पाठः पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy