SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ३६ नीतिवाक्यामृते पुरुषस्य भवति सोऽपि जितेन्द्रियः । अविरुद्धशब्देन शिष्टाचारः कथ्यते। तथा च भृगुः अनुगन्तुं सतां वर्म कृत्स्नं यदि न शक्यते । स्वल्पमप्यनुगन्तव्यं येन स्यात् स्वविनिर्जयः ॥१॥ अथान्येन पदार्थेन यथा स्यादिन्द्रियजयस्तदर्थमाह अर्थशास्त्राध्ययनं वा * ॥९॥ टीका--वा विकल्पेन यदि शिष्टमार्गो न ज्ञायते तदर्थ शास्त्राध्ययनं कुर्यात् येन जितेन्द्रियता भवति । तथा च वर्ग:---- नीतिशास्त्राण्यधीते यस्तस्य दुष्टानि स्वान्यपि । वशगानि शनैर्यान्ति कशाघातैहया यथा ॥१॥ भथ शब्दच्छलेन कामर्दूषणमाहयोऽनङ्गेनापि जीयते स कथं पुष्टाङ्गानेरातीन् जयेत् ॥१०॥ टीका-यो नरोऽनंगेन कामदेवेन जीयते स कथं केन प्रकारेण अरातीन् परान् जेतुं समर्थो भवति न कथंचिदेवेत्यर्थः । किंविशिष्टानरातीन् ? पुष्टाङ्गान् पुष्टानि बलवन्ति राज्याङ्गानि येषां ते पुष्टाङ्गास्तान् । पुष्टांगशब्देन स्वाम्यमात्यश्च राष्ट्र दुर्ग कोशो बलं सुहृदो राज्याङ्गानि न शरीराणीत्यर्थः। तथा च भागुरिः ये भूपाः कामसंसक्ता निजराज्याइदुर्बलाः । दुष्टाङ्गास्तान् पराहन्युः पुष्टाङ्गा दुर्बलानि च ॥ अथ कामासक्तस्य यद्भवति तदाहकामासक्तस्य नास्ति चिकित्सितम् ॥ ११ ॥ १ मार्गस्थो नावसीदतीत्यन्यत्रपाठः * अस्मादने 'कारणे कार्योपचारात्'इति -मु-पुस्तके २ 'नरीन' इति पुस्तके पाठः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy