SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कामसमुद्देशः। ३५ __ तथा यकाभिर्विभूतिभिर्विद्यमानाभिर्मनसस्तुष्टिर्न भवति ताश्चापि निष्फलाः पुसां । कोऽर्थः ? विद्यमाने धने यः सेवाक्लेशेन खेदं जनयति प्रवासेन वा तस्यापि ता निष्फलाः । तथा च चारायण:___ सेवादिभिः परिक्लेशैविद्यमानधनोऽपि यः। सन्तापं मनसः कुर्यात्तत्तस्योषरघर्षणम् ॥ १ ॥ अथाजितेन्द्रियाणां यथा स्वल्पापि कार्यसिद्धिर्न भवति तदाहनाजितेन्द्रियाणां कापि कार्यसिद्धिरस्तैि ॥ ७॥ टीका-अजितेन्द्रियाणां पुरुषाणां कापि स्वल्पापि कार्यसिद्धिन विद्यते । कथं, यो गीतलालसो भवति स गीतं शृण्वन् स्वकृतेषु विलम्ब करोति विलम्बे कृते कार्यनिष्फलता स्यात् । उक्तं च शुक्रेण यस्य तस्य च कार्यस्य सफलस्य विशेषतः। क्षिप्रमक्रियमाणस्य कालः पिबति तत्फलम् ॥१॥ एवं यः प्रियालिङ्गनलालसः, तथा मिष्टान्नास्वादरतः, तथा रूपाढ्यस्त्रियामवलोकनरतः, तथा परिमलाघ्राणनिरतश्च। तथा च ऋषिपुत्रकः स्वकृतेषु विलम्बन्ते विषयासक्तचेतसः। क्षिप्रमक्रियमाणेषु तेषु तेषां न तत्फलम् ॥१॥ अथ पुरुषाणां यथेन्द्रियजयो भवति तदाहइष्टेऽर्थेऽनासक्तिविरुद्धे चाप्रवृत्तिरिन्द्रियजयः ॥ ८॥ टीका-इष्टे वल्लभे वस्तुनि अनासक्तो भवति युक्तमात्रं निषेवते न तत्रैवासक्तिं करोति स जितेन्द्रियः कथ्यते । संसारस्य फलं यद्यप्येतदिष्टनिषवणं युक्तं तथाप्यधिकमयुक्तं, यतोऽजीर्णे पथ्यमप्यन्नं व्याधये मरणाय वा भवति । तथा विरुद्ध पदार्थे याऽप्रवृत्तिरप्रवर्तनं यस्य १ यस्य मु-पुस्तके । २ रिति मु-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy