________________
नीतिवाक्यामृते
तथार्थः केवलं सेव्यमानो धर्मकामौ पीडयति । तथा कामोऽप्यतिसेवितः स धर्मार्थों पीडयति । कथं ? केवलं धर्मासक्तोऽर्थोपार्जनादिकं व्यवसायं न करोति स्त्रीविषयविरक्तो भवति । यद्यर्थासक्तो भवति तद्धर्म न करोति तदासक्तश्च निष्कामो भवति । तथा कामासक्तो धर्म न करोति धनक्षयं च करोति । तथा च वशिष्ठः
_एको हि सेव्यमानस्तु त्रिवर्ग च प्रपीडयेत् ।
द्वावन्यौ सेवयेदस्मिस्त्रीश्च तांश्च यथोदितान् ॥ १॥ अथ कष्टेन यद्धनोपार्जनं क्रियते तदर्थमाहपरार्थ भारवाहिन इवात्मसुखं निरुन्धानस्य धनोपार्जनम्॥५॥ टीका—आत्मसुखं निरुन्धानस्य महता क्लेशेन युक्तस्य पुरुषस्य यद्धनोपार्जनं । किंविशिष्टं ? परार्थ भारवाहसदृशं व्यर्थमित्यर्थः । यथा कश्चित् पुरुषः पशुर्वान्यस्यार्थ शिरसा पृष्टया वा भारं वहति न तद्भोक्तुं लभते केवलं क्लेशभागी स्यात् । तथा च व्यास:--
अतिक्लेशेन ये चार्था धर्मस्यातिक्रमेण च ।
शत्रूणां प्रतिपातेन मात्मन् ! तेषु मनः कृथाः ॥१॥ अथ विभूतीनां साफल्यं यथा भवति तथाहइन्द्रियमनःप्रसादनफला हि विभूतयः ॥६॥
टीका-सम्पदः कथ्यन्ते याः पुनः सेविता अपि तुष्टिं न जनयन्ति ता असम्पदस्तस्य । एतदुक्तं भवति, यकाभिर्विभूतिभिर्विद्यमानाभिर्थे कृपणा न गीतश्रवणेन, न प्रियतमास्पर्शेन, न मिष्टान्नास्वादनेन, न स्वरूपस्त्रीवेश्यास्वकलत्ररूपावलोकनेन सुखमनुभवन्ति । कर्पूरप्रभतिमुगन्धवस्तूनां नाघ्राणं कुर्वन्ति तथा निष्फलास्तेषां । तथा च व्यासः
यद्धनं विषयाणां च नैवाल्हादकरं परं । तत्तेषां निष्फलं शेयं षंढानामिव यौवनम् ॥१॥
१'मात्म ' इति पुस्तके पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org