SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कामसमुद्देशः । ३३ mixMAJANAM धर्मार्थाविरोधेन कामं सेवेत ततः सुखी स्यात् ॥ २ ॥ टीका-धर्मार्थयोरविरोधेनानुकूलतया काम सेवेत । कोऽर्थः ? यथा धर्मक्षतिन भवति परदारान् वर्जयेदित्यर्थः । यथार्थस्य क्षतिर्न भवति तथा वेश्यासक्तिर्वर्जनीया । एवं वर्तमानः स्वकलत्रसेवमानः सुखी भवति। तथा च हारीतः -- .. परदारांस्त्यजेद्यस्तु वेश्यां चैव सदा नरः। न तस्य कामजो दोषः सुखिनो न धनक्षयः ॥१॥ अथ यथा त्रिवर्गः सेव्यस्तथाहसमं वा त्रिवर्ग-सेवेत ॥३॥ टीका—वा विकल्पेन, समं एकहेलं त्रिवर्ग सेवेत । यदि धर्मार्थपीडनं पृथक्कामसेवनेन भवति । अथवा धर्मसेवनेन कामार्थाभ्यां पीडनं भवति । अथवार्थसेवनेन धर्मकामाभ्यां पीडनं भवति । त्रयोऽपि सेव्याः । कथं ? सत्रिभागं प्रहरं यावत् धर्मचिन्ता कार्या, सत्रिभागं प्रहरमर्थचिन्ता, ततः कामचिन्तेति । तथा च नारदः प्रहरं सत्रिभागं च प्रथमं धर्ममाचरेत् । द्वितसिं तु ततो वित्तं तृतीयं कामसेवने ॥१॥ अथ त्रिवर्गमध्यादेकेनात्यतिसेवनेन यद्भवति तदाहएको हत्यासेवितो धर्मार्थकामानामात्मानमितरौ च पीडयति ॥४॥ ___टीका-एतेषां त्रयाणां मध्यादेकोऽप्यतिसेवित आत्मानं वृद्धि नयति इतरौ तु पीडयति । एतदुक्तं भवति यदि धर्मः सततं. सेव्यते ततोऽर्थकामौ न भवतः । उक्तं च यतो वृहस्पतिना धर्मसंसक्तमनसां कामे स्यात्सुविरागता । अर्थे चापि विशेषेण यतः स स्यादधर्मतः ॥१॥ १ 'न निःसुखः स्यात् 'मु-मू-पुस्तके । २ ह्यत्यासत्या मु-पुस्तके। नीति०-३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy