SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३ कामसमुद्देशः। अथ कामसमुद्देशः कथ्यते । तत्रादावेव कामस्य लक्षणमाहआभिमानिकरसानुविद्धा यतः सर्वेन्द्रियप्रीतिःस कामः॥१॥ टीका-कामशब्देन स्त्रियामभिलाषः कथ्यते । यतो यस्मादभिलाषात् सर्वेन्द्रियप्रीतिर्जायते स कामः, न केवलं रतिलक्षणः। किंविशिष्टा सर्वेन्द्रियप्रीतिः ? अभिमानिकरसानुविद्धा । आभिमानिकरसशब्देन निरर्गलता प्रोच्यते तयानुविद्धा यासौ स्नेहलक्षणसर्वेन्द्रियप्रीतिः कामाभिलाषो भवति, तदाह- यस्याः नायिकायाः कलशब्दं श्रुत्वा कर्णाभ्यां निरर्गला प्रीतिर्जायते, तस्या सुकोमलाङ्गस्पर्शेन च निरर्गला प्रीतिर्भवति । तथा यस्या रूपावलोकनेन . नेत्रयोनिरर्गला प्रीतिः । तथा यस्याः परिमलाढ्याङ्गस्या घ्राणात् प्राणस्य निरर्गला प्रीतिः । तथा तस्या अधरपानात् जिह्वाया अमृतपानादिवं निरर्गला प्रीतिर्भवति स कामः पंचप्रकारेण नैकेनापि हीयते । तथा च राजपुत्रः सर्वेन्द्रियानुरागः स्यात् यस्याः संसेवनेन च । सच कामः परिशेयो यत्तदन्यद्विचेष्टितम् ॥१॥ तथा च-- इन्द्रियाणामसन्तोषं यः कश्चित् सेवते स्त्रियं । स करोति पशोः कर्म नररूपस्य मोहनं ॥२॥ अपि च--- यदिन्द्रियविरोधेन मोहनं क्रियते जनः । तदन्धस्य पुरे नृत्यं सुगीतं वधिरस्य च ॥ ३॥ अथ यथा कामसेवनेन पुमान् सुखी भवति तथाह Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy