SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अर्थसमुद्देशः। ज्ययं करोति तत्तयोरपि द्वयोर्दरिद्रता भवति द्वौ दौःस्थ्यं व्रजतः । तथा च कपिपुत्रः आगमाभ्यधिकं कुर्याद्यो व्ययं यश्च भक्षति । पूर्वजोपार्जितं नान्यदर्जयेच्च स सीदति ॥१॥ अथ कदर्यस्य यद्भवति तदाह-- कदर्यस्यार्थसंग्रहो राजदायादतस्कराणामन्यतमस्य निधिः ॥११॥ टीका-~-कदर्यस्य तु पुनर्यो धनसंचयः स किंविशिष्टो ? निधिः । केषां ? राजदायादर्तस्कराणां । अन्यतमस्य एकस्य । एतदुक्तं भवति भूपेन गोत्रजेन तस्करेण वाहियते इति । तथा च वल्लभदेव:. दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुंक्त तस्य तृतीया गतिर्भवति ॥१॥ तथा च शुक्रः शेषो धारयते पृथ्वीं सन्निधानां सदोष्मणां कृपणैर्निहितानि च तस्य शक्तिने चान्यथा ॥१॥ इत्यर्थसमुद्देशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy