SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ama.maara नीतिवाक्यामृते___टीका--य उपार्जनां कृत्वा अनुचितं व्ययति, कोऽर्थः ? असद्ययं करोति, न जानाति ममैतत्प्रयोजनमर्थन भविष्यति । आगतेरप्यधिक ददातीत्यर्थः । स धनी तादात्विक उच्यते । तथा च शुक्रः आगमे यस्य चत्वारो निर्गमे सार्धपंचमः। तस्यार्थाः प्रक्षयं यान्ति सुप्रभूतोऽपि चस्थितः ॥१॥ अथ मूलहरलक्षणमाहयः पितृपैतामहमर्थमन्यायेन भक्षयेति स मूलहरः ॥८॥ टीका-यः पुनर्धनी पितृपैतामहमर्थ अन्यायेन द्यूतवेश्यादिना व्ययति नान्यदुपार्जयति स मूलहरः प्रोच्यते । तथा च गुरुः-- पितृपैतामहं वित्तं व्यसनैर्यस्तु भक्षयत् । अन्यन्नोपार्जयेत् किंचित् स दरिद्रो भेवर्द्धवम् ॥ १ ॥ अथ कदर्यलक्षणमाहयो भृत्यात्मपीडाभ्यामर्थ संचिनोति स कदर्यः ॥ ९ ॥ टीका-यः पुनर्भत्यानात्मानं च पीडयति, विभवे विद्यमानेऽपि भत्येभ्यो न प्रयच्छति, न च स्वयं भक्षयति स कदर्यः । स च त्रयाणामप्यधर्मः । तस्य द्रव्यं राजा तस्करा वा हरन्ति । तथा च हारीत: अथ तादाविकमूलहरयोर्यद्भवति तदाहतादात्विकमूलहरयोरायत्यां नास्ति कल्याणम् ॥ १०॥ टीका-आयतिशब्देन परिणाम उच्यते । तस्यामायत्यां परिणामे कल्याणं शुभं न भवति । कयोः ? तादात्विकमूलहरयोः । एतदुक्तं भवति, यन्मूलहरः पितृपैदामहमर्थ अन्यायेन भक्षयति यच्च तादात्विकोऽनांचेतं १ नैष पदो मुद्रितपुस्तके । २ अनुभवति इत्यपि पाठः मु. पुस्तके । ३ संचितं कृतवारेण जोप्यते याचितं द्विनवरेण दीयते । श्लोकस्थानेऽयं पाठः पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy