SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अर्थसमुद्देशः। यो न यच्छति पात्रेभ्यः स्वधनं कृपणो जनः। तेनैव सह भूपालैश्चौराद्यैर्वा स हन्यते ॥१॥ केचित् मधुच्छत्रशब्देन बालकजालं कथयति । तस्य तीर्थभूतानि पात्राणि, अर्थभूतो गन्धः । तेभ्यः पात्रेभ्यस्तीर्थभूतेभ्यो गन्धरूपेणार्थ प्रयच्छन् प्रददत् बालकजालमपि विनश्यति । अथ तीर्थलक्षणमाहधर्मसमवायिनः कार्यसमवायिनश्च पुरुषास्तीर्थम् ॥ ५ ॥ टीका-ये पुरुषाः समवायिनो धर्मकृत्येषु सहाया भवन्ति येषां सकाशात् धर्मकार्य निरूपितं भवति ते धर्मसमवायिनः प्रोच्यन्ते । ये च सर्वकृत्येषु सहाया भवन्ति, येषां सकाशात् महदपि कृत्यं सिद्धिं गच्छति ते कार्यसमवायिनः । तत्र सर्वेऽपि तीर्थ भण्यते । तान् योऽर्थो न संभावयेत् तेभ्यः योऽर्थ ( तमर्थ ) नियोजयेत् । तस्य वृद्धिर्धर्मवृद्धिश्च भवति । तथा च वृहस्पतिः तीर्थेषु योजिता अर्था धनिनां वृद्धिमाप्नुयुः। अतीर्थेषु पुनर्लाभं योजिता व्याललोभतः ? ॥१॥ अथ येषां धनिनां धननाशो भवति तानाहतादात्विकमूलहरकदर्येषु नासुलभः प्रत्यवायः ॥६॥ टीका---एतेषां तादात्विकमूलहरकदर्याणां संज्ञा आगामिकसूत्रेषु वदिष्यति । किं बहुना, एतेषां धनिनां प्रत्यवायोऽर्थनाशः सदैव भवतीति । तथा च शुक्रः अचिन्तितार्थमश्नाति योऽन्योपार्जितभक्षकः। कृपणश्च त्रयोऽप्येते प्रत्यवायस्य मन्दिरम् ॥१॥ अथ तादात्विकलक्षणमाह-- यः किमप्यसंचित्योत्पनमर्थ व्ययति स तादात्विकः ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy