________________
२८
नीतिवाक्यामृते___टीका-सामादिभिरुपायैस्तावत् पुरुषेणार्थ उपार्जनीयः । उक्तं च यतो हारीतेन
असाध्यं नास्ति लोकेऽत्रः यस्यायं साधनं परं ।
सामादिभिरुपायैश्च तस्मादर्थमुपार्जयेत् ॥१॥ तथा च लब्धोऽर्थो यथा भवति तथा रक्षणीयो यत्नेन यतस्तस्य बह्वो हिंसका भवन्ति । तथा च व्यास:--
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि। __ आकाशे पक्षिभिश्चैव तथार्थोऽपि च मानवैः ॥१॥ तथा रक्षितो वृद्धिं नेयः । यस्तं सद्व्यवहारैः कुसीदादिभिवृद्धिं नयति स तस्य भाजनं भवति । उक्तं च यतो गर्गेण
वृद्ध तु परिदातव्यः सदार्थो धनिकेन च ।
ततः स वृद्धिमायाति तं विना क्षयमेव च ॥३॥ इत्यर्थानुबन्धः । अथ सामादिभिरुपार्जितोऽर्थोऽपि यथा नाशमायाति तथाह-- तीर्थमर्थेनासंभावयन् मधुच्छेत्रमिव सर्वात्मना विनश्यति॥४॥
टीका-तीर्थभूतं पुरुषलक्षणं आगामिकसूत्रे वदिष्यति । यो धनी तीर्थलक्षणं पुरुषमर्थन न सम्भावयति स सर्वात्मना निश्चितुं विनश्यति । किं कुर्वन् ? असंभावयन् अनियोजयन् । किं तत् ? तीर्थ पात्रं । केन ? अर्थन वित्तेन । कथं विनश्यति ? मधुच्छत्रवत् मधुच्छत्रशब्देन मधुजालकमुच्यते । तस्य तीर्थ भ्रमराः । माक्षिकोऽर्थः । तेन यत् भ्रमरान् न संभावयति तत्सर्वात्मना विनश्यति तथा मदनमपि न भवति सूक्ष्मोत्पन्नकीटैर्भक्ष्यते । यस्य पुनर्भमरा मधु पिबन्ति अन्यच्च श्रावयन्ति तच्छेषं सिक्थकसंझं भवति । एवं धनी पुमानपि सत्पात्रेषु धनं (न) नियोजयति तस्य तत्प्रभावाच्छेषमपि वित्तं भत्योपभोग्यं भवति । तथा च वर्ग:-- १ छन्नेति ख-पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org