SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ २ अर्थसमुद्देशः । अथार्थसमुद्देशो लिख्यते, तत्रादावेवार्थस्य स्वरूपमाहयतः सर्वप्रयोजनसिद्धिः सोऽर्थः ॥ १ ॥ टीका — कथ्यते, नान्यो यः कृपणैर्गर्तेषु स्थापितस्तिष्ठति । उक्तं च वल्लभदेवेन गृहमध्यनिखातेन धनेन धनिनो यदि । भवामः किन्न तेनैव धनेन धनिनो वयं ॥ १ ॥ - तथा च येन धर्मस्य कृते प्रयुज्यते यन्न कामस्य च भूमिमध्यगम् । तत्कदर्यपरिरक्षितं धनं चौरपार्थिवगृहेषु भुज्यते ॥ १ ॥ संचितमृतुषु नैव भुज्यते, याचितं गुणवते न दीयते ॥ अथ यादृक् पुमानर्थस्य भाजनं भवति तदाह-सोऽर्थस्य भाजनं योऽर्थानुबन्धेनार्थमनुभवति ॥ २ ॥ टीका - स पुरुषः सर्वकालमर्थस्य धनस्य भाजनं स्थानं भवति । यः किं कुर्यात् ? योऽर्थानुबन्धेनागामिकसूत्रन्यायेनार्थमनुभवति सेवते । तथा च वर्ग: अर्थानुबन्धमार्गेण योऽथं संसेवते सदा । स तेन मुच्यते नैव कदाचिदिति निश्चयः ॥ १ ॥ अर्थानुबन्धलक्षणमाह--- अलब्धलाभो लब्धपरिरक्षणं रक्षितपरिवर्द्धनं चार्थानु बन्धः ॥ ३ ॥ १-२ न यन्नति पाठः पुस्तके । ३ लब्धेति मू-पुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy