SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते धर्माधर्मों कृतं पूर्व प्राणिनां ज्ञायते स्फुटं । विवृद्धया सुखदुःखस्य चिह्नमेतत्परं तयोः ॥१॥ अथ धर्माधिष्ठातुर्माहात्म्यमाहकिमपि हि तद्वस्तु नास्ति यत्र नैश्वर्यमदृष्टाधिष्ठातुः॥४८॥ टीका--अत्राधिष्ठातृशब्देनैके आत्मानं कथयन्ति । अन्ये प्राक्तनं कर्म । तस्याधिष्ठातुरदृष्टस्य परोक्षस्य तत्किचिद्वस्तु पदार्थः स कोऽपि नास्ति यत्र नैश्वर्य प्रभुत्वं समर्थता सर्वमपि शुभाशुभं स करोति स न केनापि निवार्यते । हि यस्मादर्थे स्फुटार्थे वा । तथा च भृगुः-- अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति॥१॥ इति धर्मसमुदेशः। १ नास्ति तद्वस्तु यत्र नैश्वर्यमदृष्टाधिष्ठाव्याः इति मु-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy