________________
धर्मसमुद्देशः ।
२५
परलोके विरोधः स्यात् नरकपातो भवतीत्यर्थः । स्नानदानस्वकलत्रादिकं सुखमनुभवितव्यमेव । तथा च वर्ग:
सेवनाद्यस्य धर्मस्य नरकं प्राप्यते ध्रुवं ।
धीमता तन्न कर्तव्यं कौलनास्तिककीर्तितम् ॥ १॥ अथान्यायसुखलेशेन यद्भवति तदाह--
इदमिह परमाश्चर्य यदन्यायसुखलवादिहामुत्र चानवधि?खानुबन्धः ॥ ४६॥
टीका-हे जनाः । एतदाश्चर्यमिह जगति अपरं अपूर्व न दृश्यते मूर्खजनानां, यत् किंचिदन्यायचौर्यादिभिरुपार्जनं कृत्वा तेन यं सुखलवमनुभवति तस्यानवधिरनन्तो दुःखानुबन्धो दुःखपरिणामः । क ? इहास्मिन् जगति । अमुत्र च परलोके च । कथंचिद्यदि तावदाजा जानाति तदा दण्डयति । अथवा परलोकेऽपि धर्मराजो निग्रहं करोति तस्मादन्यायोपार्जना न कर्तव्या । तथा च वशिष्ठः
चित्रमेतद्धि मूर्खाणां यदन्यायार्जनात्सुखम् ।
अल्पं प्रान्तं विहीनं च दुःखं लोकद्वये भवेत् ॥ १॥ अथान्यजन्मकृतयोर्धर्माधर्मयोः किं लिंगं तदर्थ व्याख्यायतेसुखदुःखादिभिः प्राणिनामुत्कर्षापकर्षों धर्माधर्मयोर्लिंगं ॥४७॥ ___टीका-उत्कर्षशब्देन वृद्धिरुच्यते । अपकर्षशब्देन हानिश्च । उत्कर्षश्चापकर्षश्चोत्कर्षापकर्षों ताभ्यां ज्ञायते । किं तत् ? लिंगं चिह्न । कयोः ? धर्माधर्मयोः । केषां ? नराणां । कैः कृत्वा ? सुखदुःखादिभिः । यदा पुरुषाणां सुखं परं भवति तदा ज्ञायते एतैरन्यजन्मनि धर्मः कृतः । यदा पुनः दुःखोत्कर्षो भवति तदा ज्ञायते एतैः पापं कृत्वा धर्मः कृतः। तथा च दक्षः
१ वेति मूलपाठः पुस्तके । २ पापकर्म । ३ सुखादिभिरिति मु-पुस्तके ।
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org