SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २४ नीतिवाक्यामृते I कस्येव ? कुटुम्बिन इव कर्षकस्येव । किंविशिष्टस्य ? बीजभोजिनो वप्तुं योग्यस्य भक्षकस्य न किंचिदन्नं भवति । आयत्यां शरदि वसन्ते वा । तथा च भागुरि: पापासक्तस्य नो सौख्यं परलोके प्रजायते । बीजाशिहालिकस्येव वसन्ते शरदि स्थिते ॥ १ ॥ अथ कामार्थत्यागेन केवलं धर्माश्रितस्य यद्भवति तदाहयः कामार्थावुपहत्य धर्ममेवोपास्ते स पक क्षेत्रं परित्यज्यारेण्यं कृषति ॥ ४४ ॥ < I टीका- - यः पुरुषः कामार्थौ त्यक्त्वा धर्ममेकं करोति । स किं कुरुते ? पक्कं लवनयोग्यं क्षेत्रं त्यक्त्वारण्यकर्षणं करोति । कोऽर्थो यौ कामार्थों पक्कक्षेत्रसमौ तौ ज्ञेयौ । यः पुनः धर्मः सोऽरण्यकर्षणसमो न तस्य धर्मस्यापि माहात्म्यं मन्यते कामार्थाभ्यां विना । तदर्थमाह- अरण्यक - र्षणादपि सस्योत्पत्तिर्भवति परं कालक्रमेण तत्रारण्यस्यानावृष्टिरिति उपद्रवो यदि न भवति । यौ पुनः कामार्थौ तौ सद्यः सुखफलौ । तस्मात् कामार्थाभ्यां सह धर्मः कर्तव्यः सुखार्थिभिः । तथा च रैभ्य:--- कामार्थसहितो धर्मो न क्लेशाय प्रजायते । I तस्मात्ताभ्यां समेतस्तु कार्य एव सुखार्थिभिः ॥ १ ॥ अथ सुमतिर्यथा भवति तथाह स खलु सुधीर्योमुत्र सुखाविरोधेन सुखमनुभवति ॥ ४५ ॥ टीका - स पुरुषः खलु निश्चयेन सुधीः सुमतिर्विज्ञेयः । यः किं करोति ? योऽनुभवति सेवते । किं तत् ? सुखं । केन कृत्वा ! अमुत्र सुखाविरोधेन । अमुत्रशब्देन परलोकोऽभिधीयते । तस्य येन सुखेनानुभूतेन विरोधो न भवति तथा तदनुभवितव्यं । यत्पुनः परदारचौर्यादिकं तेन I १ परित्यज्योषरं इति मु-पुस्तके । २ सुखीति मु-मू-पुस्तके | - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy