SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ धर्मसमुद्देशः । २३ वनहस्ती दृष्ट्वा कामैरानीतां वनकरेणुकां स्पर्शमात्रं सुखमनुभवन् बन्धनमाप्नोति तद्वत् पुरुषोऽपि यस्मात् परस्त्रीस्पर्शमात्रं सुखं लभते । तथा च नारदः — करिणी स्पर्शसौख्येन प्रमत्ता वनहस्तिनः । बन्धमायान्ति तस्माच्च तदात्वं वर्जयेत् सुखम् ॥ १ ॥ अथ धर्मातिक्रमेण यद्भवति तदाह धर्मातिक्रमाद्धेनं परेऽनुभर्वन्ति स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् ॥ ४२ ॥ - टीका — धर्मातिक्रमेण चौर्यादिभिरकृत्यैर्यद्धनं प्राप्यते तदपरे पुत्रकलत्रादयो भक्षयन्ति, उपार्जकस्तु पुनः केवलं उत्कृष्टं पापस्य भाजनं पापस्थानं भवति । क इत्र ? सिंहवत् यथा सिंहः सिधुरं गजं हत्वा अन्येषां शृगालादीनां भोज्यं करोति केवलं स्त्रयं पापवान् भवति तथा पुरुषोऽपि । तथा च विदुर: एकाकी कुरुते पापं फलं भुंक्ते महाजनः । भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ १ ॥ अथाधार्मिकस्य यद्भवति तदाह- बीजभोजन: कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि शुभम् ॥ ४३ ॥ टीका - अत्रायतिशब्देन परिणाम उच्यते तस्मिन् परिणामे पुरुस्य न किंचिच्छुभं भवति । किंविशिष्टस्य पुरुषस्य ? अधार्मिकस्यें । १ कमालब्धं धनं मू-पुस्तके । २ नयन्ति मु-पुस्तके । ३ शुभं फल मू पुस्तके | ४ अधर्मरतस्य टीकापाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy