SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते खलसंगेन किं नाम न भवत्यनिष्टम् ॥ ३९ ॥ टीका-खलो दुर्जनस्तेन सह संगेन कृतेन तत्कि नामाहो न भवति यदनिष्टं पापलक्षणमित्यर्थः । तस्मात्खलसंगस्त्याज्यः । तथा च वल्लुभदेवः असतां संगदोषेण साधवो यान्ति विक्रियां। दुर्योधनप्रसंगेन भीष्मो गोहरणे गतः ॥१॥ अर्थ दुर्जनानां स्वरूपमाह अग्निरिव स्वाश्रयमेव दहन्ति दुर्जनाः ॥ ४० ॥ टीका-दुर्जनाः खलाः स्वाश्रयमपि यस्मिन् गृहे जायन्ते तदपि दहन्ति, किं पुनरन्येषां साधूनां न दहन्ति । क इव ? अग्निरिव वैश्वानरवत् । यथा वैश्वानरो यत्र काष्ठे उत्पन्नस्तदपि दहति तथा दुर्जनाः स्वगृह क्षयं कृत्वा ततश्च साधूनामपि गृहाणि नाशयन्ति । तथा च वलभदेवः धूमः पयोधरपदं कथमप्यवाप्यै षोम्बुभिः शमयति ज्वलनस्य तेजः। दैवादवाप्य खलु नीचजनः प्रतिष्ठां प्रायः स्वयं बन्धुजनमेव तिरस्करोति ॥१॥ अथ तदात्वसुखलुब्धस्य यद्भवति तदाहवनगज इव तदात्वसुखलुब्धः को नाम न भवत्यास्पदमापदाम् ॥४१॥ टीका-अत्र तदात्वसुखशब्देन परस्त्रीस्पर्शः तत्कालिकसुखमभिधीयते । तत्र यो लुब्धः पुरुषः को नामाहो कासामापदां व्यसनलक्षणानां नास्पदं स्थानं भवति । क इव ? वनगज इवारण्यहस्तीव यथा . १ किं नाम न करोति इति ख-पुस्तके। खलसंसर्गः कं नामानर्थ न करोति इति ग-पुस्तके । २ अग्निवत् मु-मू-पुस्तके । ३ तादात्विकेति मू-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy