________________
धर्मसमुद्दशः।
२१
गाय निजापन्नाशाय ।' न तेषां सकाशादर्थ लभंते । कथं क्रियते यतः स्नानदानजपहोमतीर्थयात्रादिकं कष्टेन क्रियमाणं धर्ममार्ग दूषयित्वा, स्त्रीसेवादिकं सुखकारकं स्वमतिविहितव्याख्याने तथा प्रबोधयन्ति धनिनो यथा तेषां तत्सत्यं मत्वा धनानि लिप्स्यन्ते ।
यतो माक्षिका धारा विनुषो ब्रह्मविन्दवः ।। स्त्रीमुखं बालवृद्धं च न दुष्यन्ति कदाचन ॥१॥ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो यासां दुष्कृतान्यपि कर्षति ॥ २॥ . सोमस्तासां ददौ शौचं गन्धर्वाश्च कलं गिरं । पावकः सर्वमेध्यत्वं तस्मान्मध्यतमाः स्त्रियः ॥३॥ ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः। अजाश्च मुखतो मेध्याः स्त्रियो मेध्याश्च सर्वतः॥४॥ स्त्रीमुद्रां मकरध्वजस्य परमां सर्वार्थसत्करी___ मेनां ये प्रविहाय यान्ति कुधियः स्वर्गापवर्गच्छया । तैौषैर्विनिहत्य ते हततरं नग्नीकता मुण्डिताः
केचित् रत्नपटीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ५॥ कामाता कामिनी प्राप्तां पापं मत्वा त्यजन्ति ये। ते मृता नरकं यान्ति तन्निःश्वाससमाहताः ॥६॥ परदारविरक्तानां कुदाराणां नृणामिह । वेश्या साधारणा प्रोक्ता तस्मात्सेव्या प्रयत्नतः ॥ ७॥ ब्रह्मचर्येण चेत्स्वर्गों नराणामिह जायते । ते षंढाः प्रथमं यान्ति ततोऽन्ये ब्रह्मचारिणः ॥ ८॥ इत्येवमादिभिरन्यैरपि धर्मविषये सुखावहैर्वाक्यैः स्नानदानजपहोमकृते धूतैः दुरीहितवृत्तयः क्रियन्त इति ।
अथ खलसंगेन यद्भवति तदाह
१ अन्यथेति शेषः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org