SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २० नीतिवाक्यामृते टीका-लोकस्य जनस्य धर्मानुष्ठाने क्रियमाणे अप्रार्थितमपि प्रातिलोम्यं विघ्नं भवति पापानुष्ठाने न स्यात् । तथा च वर्गः श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां यान्ति कापि विलीनतां ॥१॥ अथ धर्माप्रवृत्तस्य यद्भवति तदाह__अधर्मकर्मणि को नाम नोपाध्यायः पुरश्चारी वा ॥३६॥ टीका-पापकर्मणि प्रवृत्तस्य लोकस्य को नामाहो नोपाध्यायः नोपदेशदाता, अपि सर्वोऽपि जनः पापार्थ प्रेरयतीत्यर्थः । पुरश्चारी वा अग्रेसरः । अहमेतत्करोमि त्वमपि कुरु एवं जल्पत इत्यप्रेसरो भवति । तथा च रैभ्यः-- सुलभाः पापरक्तस्य लोकाः पापोपदेशकाः। स्वयं कृत्वा च ये पापं तदर्थ प्रेरयन्ति च ॥१॥ अथ पापनिषेधार्थमाहकण्ठगतैरपि प्राणैर्नाशुभं कर्म समाचरणीयं कुशलमतिभिः ॥३७॥ टीका-उत्कृष्टबुद्धिभिः पुरुषैरशुभं कर्म न समाचरणीयं न कर्तव्यं विद्यमानैः प्राणैः, किंविशिष्टैः ? कण्ठगतैरपि, कोऽर्थः ? यदि प्राणत्यागो भवति, किं पुनः स्वस्थचित्तैः । तथा च देवल:-.. धीमद्भिर्नाशुभं कर्म प्राणत्यागेऽपि संस्थिते। इह लोके यतो निन्दा परलोकेऽधमा गतिः॥१॥ अथेश्वरा धूतैः स्वार्थार्थ पापमार्गे नियोज्यन्ते तदर्थमाह-- स्वव्यसनतर्पणाय धृतैर्दुरीहितवृत्तयः क्रियन्ते श्रीमन्तः ॥३८॥ ___टीका–श्रीमन्तो धनिनो जनाः क्रियन्ते विधीयन्ते । किंविशिष्टाः ? दुरीहितवृत्तयः पापमार्गरताः । कैः ? धूर्तेर्वचनपरैः । किमर्थं ? स्वव्यसनतर्प १ विनायकाः पुस्तके पाठः। २ समाचरन्ति कुशलबुद्धयः इत्यपि पाठः । ३ सन्तर्पणाय टीकापाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy