________________
धर्मसमुद्देशः।
टीका-अनाचरत उद्यममकुर्वाणस्य पुरुषस्य मनोरथा ये हृदि चिन्तितास्ते सुखाभिप्रायाः स्वप्नराज्यतुल्यास्तावन्मात्रसौख्यदा इत्यर्थः । तथा च वल्लभदेवः
उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः ।
न हि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगाः ॥ ९ ॥ अथ यो धर्मफलं भजमानोऽप्यधर्मानुष्टानं कुरुते तदर्थमाह--
धर्मफलमनुभवतोऽप्यधर्मानुष्ठानमनात्मज्ञस्य ॥ ३३ ॥ टीका-य: पुरुषो धर्मफलं सेवमानः सन् , अधर्मानुष्ठानं करोति सोऽनात्मज्ञो मूर्ख इत्यर्थः । ननु कथं ज्ञायते पुरुषस्य धर्मफलं भुक्तिः ? यश्चात्र हस्त्यश्वादिको विभवो भवति तेन ज्ञायते धर्मफलमेतत्, तज्जैरन्यजन्मकृतं, तत्सेवमाना अपि मूर्खा न जानन्ति पापानुष्ठानं कुर्वन्ति । तथा च सैनकः
अन्यजन्मकृताद्धर्मात्सौख्यं संजायते नृणां ।
तद्विज्ञायते नास्तेन ते पापसेवकाः ॥१॥ अथ धर्मानुष्टानार्थमाहकः सुधीभैषजमिवात्महितं धर्म परोपरोधादनुतिष्ठति ॥३४॥ टीका-को नाम विद्वान् आत्महितं धर्म अन्यदाक्षिण्यादनुतिष्ठति करोतीत्यर्थः । यस्मात्तत्फलमानोति, किमिव ? भेषजमिव औषधमिव यथौषधं परोपरोधात्कृतं चित्तानिष्टं न आरोग्यं कुरुते तथा धर्मोऽपि । तथा च भागुरि:
परोपरोधतो धर्म भेषजं च करोति यः ।।
आरोग्यं स्वर्गगामित्वं न ताभ्यां संप्रजायते ॥१॥ अथ धर्मानुष्ठाने कृते यद्भवति तदाह
धर्मानुष्ठाने भवत्यप्रार्थितमपि प्रातिलोम्यं लोकस्य ॥ ३५ ॥
१ यः भु-पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org