SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते अथ धर्मश्रुतधनानां स्वल्पेनापि संग्रहेण नित्यं विहितेन यद्भवति तदाह धर्मश्रुतधनानां प्रतिदिनं लवोऽपि संगृह्यमाणो भवति समुद्रादप्यधिकः ॥ २९ ॥ टीका-धर्मश्च श्रुतं च धनं च धर्मश्रुतधनानि तेषां धर्मश्रुतधनानां मध्याल्लवोऽपि लेशोऽपि संगृह्यमाणः पुरुषेण प्रतिदिनं गच्छता कालेन समुद्रो भवति । कोऽर्थोऽनन्तो भवति । तथा च वर्ग: उपार्जयति यो नित्यं धर्मश्रुतधनानि च । सुस्तोकान्यप्यनन्तानि तानि स्युर्जलधिर्यथा ॥ १॥ अथ धर्माय ये निरुद्यमास्तानुद्दिश्याह धर्माय नित्यमनाश्रयमाणानामात्मवंचनं भवति ॥३०॥ टीका-आत्मा वंचितो भवति। केषां ? अनाश्रयमाणानां । कस्मै ? धर्माय धर्मार्थ । तथा वशिष्ठ:---- मनुष्यत्वं समासाद्य यो न धर्म समाश्रयेत् । आत्मा प्रवंचितस्तेन नरकाय निरूपितः ॥१॥ अथ धर्मराशिविषये प्राह कस्य नामैकदैव सम्पद्यते पुण्यराशिः ॥ ३१ ॥ टीका-कस्य नामैकदैव हेलयेत्यर्थः । सम्पद्यते इति निश्चयः । तथा च भागुरिः सुख स्यानन्तरं दुःखं दुःखस्यानन्तरं सुखं । न हेलया सुखं नास्ति मर्त्यलोके भवेन्नृणां ॥१॥ अथालस्योपहतस्य मनोरथा यथा भवंति तथाह अनाचरतो मनोरथाः स्वग्नराज्यसमाः ॥ ३२ ॥ १ अजागृतां मु-मू-पुस्तके । २ स्वयमनाचरतां इत्यपि पाठः मुद्रितपुस्तके । स्वयमनाचरतो इति मू-पु. । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy