SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ धर्मसमुद्देशः । यः शास्त्रं जानमानोऽपि तदर्थं न करोति च। तद्व्यर्थं तस्य विज्ञेयं दुर्भगाभरणं यथा ॥१॥ परधर्मोपदेशकस्य स्वरूपमाहसुलभः खलु कथक इव परस्य धर्मोपदेशे लोकः ॥ २६ ॥ टीका-कथको देवायतनवाचकोऽन्येषां कथयति धर्मोपदेशं, स्वयं न करोति । तथा च वाल्मीकिः--- सुलभा धर्मवक्तारो यथा पुस्तकवाचकाः । ये कुर्वन्ति स्वयं धर्म विरलास्ते महीतले ॥१॥ अथ दानतपोभ्यां यद्भवति तदाह प्रत्यहं किमपि नियमेन प्रयच्छतस्तपस्यतो वा भवन्त्यवश्यं महीयांसः परे लोकाः ।। २७ ।। ___टीका-भवन्ति प्रवर्तन्ते । के ? कर्तृभूता लोकाः । किंविशिष्टाः ? परे स्वर्गलक्षणाः । पुनरपि कथंभूताः ? महीयांस उत्तमोत्तमाः । कस्य ? पुरुषस्य । किं कुर्वतः ? प्रयच्छतो ददतः। किमपि--कियन्मात्रमपि वित्तं । किं कुर्वतः ? तपस्यतस्तपः कुर्वाणस्य स्तोकमपि। तथा च चारायणः नित्यं दानप्रवृत्तस्य तपोयुक्तस्य देहिनः । सत्पात्रं वाथ कालो वा स स्यायेन गतिर्वरा ॥१॥ अथ संचयपराणां यद्भवति तदाह कालेन संचीयमानः परमाणुरपि जायते मेरुः ॥ २८॥ टीका-जायते सम्पद्यते । कोऽसौ ? मेरुः । किंविशिष्टः सन् ? संचीयमानो वृद्धि नीयमानः । कः ? परमाणुरपि तिलतुषमात्रमपि । केन कृत्वा ? कालेन दिवसोचयेन । तथा च भागुरिः नित्यं कोशविवृद्धिं यः कारयेद्यत्नमास्थितः । अनन्तता भवेत्तस्य मेरोहम्नो यथा तथा ॥१॥ नीति०-२ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy