SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते I टीका - ऐतिह्यशब्देनागम उच्यते । यत्र यस्मिन्नैति प्रमाणबाधा-प्रमाणदूषणं न भवति तदैतिह्यं स आगमः सद्भिः शिष्टैः श्रद्धेयो मन्यते । प्रमाणशब्देन स्वदर्शनाभिप्रायः कथ्यते । तथा च यत्र पूर्वापरविरोधो न भवति । कोऽर्थो यत्र प्रथमं उक्त्वा दर्शनाभिप्रायं पश्चातं न दूषयति प्रतिष्ठापयतीत्यर्थः सोऽपि श्रद्धेयः । तथा च नारदःस्वदर्शनस्य माहात्म्यं यो न हन्यात्स आगमः । पूर्वापरविरोधश्च शस्यते स च साधुभिः ॥१॥ अथ चंचलमनसां यद्भवति तदाहहस्तिस्नानमिवं सर्वमनुष्ठानमनियमितेन्द्रियमनोवृत्तीनाम् ॥ २४ ॥ टीका — वर्तनं वृत्तिः, अनियमितानीन्द्रियाणि मनोवृत्तिश्च येषां तेऽनियमितन्द्रियमनोवृत्तयस्तेषामनियमितेन्द्रियमनोवृत्तीनां यदनुष्ठानं क्रियालक्षणं । तत् किंविशिष्टमित्र : हस्तिस्नानमिव व्यर्थमित्यर्थः । यथा हस्ती सुस्नापितोऽपि भूयोपि प्रकृत्यात्मानं पांशुभिरुद्भूलयति तत्स्नानं व्यर्थतां नयति तथा चंचलेन्द्रियमनाः । तथा च सौनक: १६ अशुद्धेन्द्रियचित्तो यः कुरुते कांचित्सत्क्रियां । हस्तिस्नानमिव व्यर्थं तस्य सा परिकीर्तिता ॥ १ ॥ अथ ज्ञानवानपि यः शुभं न करोति तदर्थमाह दुर्भगाभरणमिव देहखेदावहमेव ज्ञानं स्वयमनाचरतः ॥२५॥ टीका—यः प्रभूतशास्त्रज्ञोऽपि शास्त्रार्थं न करोति तस्य निष्फलं शरीरखेदाय केवलं । किमिव ? दुर्भगाभरणमिव - यथा दुर्भगा स्त्री हारकेयूरादिभिरात्मानं शृंगारयति वल्लभसंयोगं न लभते तत्तस्य देहखेदावहं व्यर्थ - मित्यर्थः । तथा च राजपुत्र: १ - हस्तिस्नानमिव विफलं मु. पु. । २ - चरण० मु. पु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy