SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धर्मसमुद्देशः । यदि वहति च दण्डं नग्नमुण्डं करण्डं यदि वससि गुहायां वृक्षमूले शिलायां । यदि पठसि पुराणं वेद सिद्धान्ततत्त्वं यदि हृदयमशुद्धं सर्वमेतन्न किंचित् ॥ १ ॥ तथा च विदुर: पंचेन्द्रियस्य मर्त्यस्य छिद्रं चेदेवमिन्द्रियं । ततोऽस्य स्रवति प्रज्ञा हारः पादादिवोदकं ॥ २ ॥ अथ नियमलक्षणमाह विहिताचरणं निषिद्धपरिवर्जनं च नियमः ॥ २१ ॥ टीका - व्रतादेः प्रारब्धस्याचरणं, यत्किचिद्भिक्षाद्यं निषिद्धं तस्य वर्जनं च नियमः प्रोच्यते । तथा च नारदः यहूतं क्रियते सम्यगन्तरायविवर्जितं । न भक्षयन्निषिद्धं यो नियमः स उदाहृतः ॥ १ ॥ अथैतिह्यमाहात्म्यमाह -- विधिनिषेधावैतिह्यायत्तौ ॥ २२ ॥ टीका - विविश्व निषेधश्च विधिनिषेधौ, आयत्तौ वशगौ । कस्य ? ऐतिह्यस्यागमस्य । विधानं विधिः, निषेधो ऽकृत्यनिवृत्तिः, ताभ्यां यत्फलं भवति तदागमायत्तं शुभाशुभं । तथा च भागुरिः - विधिना विहितं कृत्यं परं श्रेयः प्रयच्छति । विधिना रहितं यच्च यथा भस्महुतं तथा ॥ १ ॥ अनु च www निषेधं यः पुरा कृत्वा कस्यचिद्वस्तुनः पुमान् । तदेव सेवते पश्चात् सत्यहीनः स पापकृत् ॥ १ ॥ अथैतिह्यनिर्णयमाह - १५ तत्खलु सद्भिः श्रद्धेयमैतियं यत्र न प्रेमाणवाधा पूर्वापरवि रोधो वा ॥ २३ ॥ १ -- स्वप्र० इति मु. पु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy