SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते __अदातुः प्रियालापोऽन्यस्य लाभस्यान्तरायः ॥ १७ ॥ टीका-याचकस्यादाता पुरुषो यः प्रियं वक्ति सोऽन्यलाभान्तरायोऽ न्यलाभविनाशकारीत्यर्थः । तथा च वर्ग: प्रत्याख्यानमदातानां याचकाय करोति यः तत्क्षणाच्चैव तस्याशा वृथा स्यान्नैव दुःखदा ॥१॥ अथ दरिद्रस्य यद्भवति तदाह सदैव दुःस्थितानां को नाम बन्धुः ॥ १८ ॥ टीका--सदैव सर्वकालमपि दुःस्थितानां दरिद्राणां को नामाहो बन्धुः, न कोपीत्यर्थः । तथा च जैमिनिः उपकर्तुमपि प्राप्तं निःस्वं दृष्ट्वा स्वमन्दिरे । गुप्तं करोति चात्मानं गृही याचनशंकया ॥१॥ अथ याचकदूषणमाह-- नित्यमर्थयती को नाम नोद्विजते ॥ १९ ॥ टीका-सर्वदा सर्वकालं प्रार्थयतां को नामाहो नोद्विजते नोद्वेगं करोति निजपुत्राणामपि । तथा च व्यास: मित्रैवं बन्धुवानी वातिप्रार्थनादित कुर्यात्।। अपि वत्समतिपिबन्तं विषाणैरधिक्षिपति धेनुः॥१॥ अथ तपःस्वरूपमाह-- __ इन्द्रियमनसोर्नियमानुष्ठानं तपः ॥ २० ॥ टीका-इन्द्रियं च मनश्चेन्द्रियमनसी तयोनियमानुष्ठानं तदेव तपः, न केवलं लिंगधारणं । तथा च व्यास: १ अन्यत्रेति पाठान्तरं । २ लाभान्तराय इत्यन्यत्र । ३ दुःखस्थितानामिति मुद्रितपुस्तके । ४ अर्थयमानात् इति मुद्रितलिखितमूलपुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy