SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ धर्मसमुद्देशः । १३ टीका-यत्र यस्मिन्नर्थे विद्यमानेऽसंविभागः सामान्यभोजनाच्छादनादीनि न भवन्ति । केषां ? शरणागतानां समाश्रितानां, सोऽर्थो मनुष्याणां मा भूत् मा भवतु । तथा च वल्लभदेवः-- किं तया क्रियते लक्ष्म्या या वधूरिव केवला। ___या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥१॥ अथार्थलुब्धस्य यद्भवति तदाह--- आर्थिषु संविभागः स्वयमुपभोगश्चार्थस्य हि द्वे फले, नास्त्योचित्यमेकान्तलुब्धस्य ॥ १५॥ * ___टीका-एकान्तमनवरतं अर्थलुब्धस्य पुरुषस्यौचित्यं नास्ति । कोऽर्थों यद्यस्य योग्यं तल्लोभान्न करोति । तथा च गुरु: लोभात्समुद्रतरणं लोभापापनिषेवणं । ब्राह्मणोऽपि करोत्यत्र तस्मात्तं नाति कारयेत् ॥१॥ अथ लुब्धस्य प्रशंसामाह--- स खलु लुब्धो सत्सु विनियोंगादात्मना सह जन्मान्तरेषु नयत्यर्थम् ॥ १६ ॥ ___टीका-स खलु लुब्धो लोलुपी स स्यात् यः सत्सु विनियोगात् साधुजनेभ्यो दत्वार्थं पश्चादात्मना सह नयति । एतदुक्तं भवति–साधुजनदत्तं दातुर्दानमक्षयं स्यात् सर्वास्वपि योनिषु तदुपतिष्ठते तस्मानार्थलुब्धो लुब्ध इत्थंभूतो लुब्धः कथ्यते । तथा च वर्ग: दत्तं पात्रेऽत्र यद्दानं जायते चाक्षयं हि तत् । जन्मान्तरेषु सर्वेषु दातुश्चैवोपतिष्ठते ॥१॥ अथ याचकस्य यथान्यलाभक्षतिर्भवति तदाह * अस्मादने 'दानप्रियवचनाभ्यामन्यस्य हि सन्तोषोत्लादनं औचित्यं' इत्यधिकः पाठः पुस्तकान्तरे Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy