SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते rrrrrrrrr तत्पारत्रिकं । यत्पुनः कार्यपात्रं तत्प्रयोजनलक्षणमैहिकं च । यत्पुनः कामपात्रं तत्स्वकलत्रलक्षणमैहिकं पारत्रिकं च । तथा च वशिष्टः-- स्वर्गाय धर्मपात्रं च कार्यपात्रमिह स्मृतं । कामपात्रं निजा कान्ता लोकद्वयप्रदायकं ॥१॥ अथ कीर्तिदूषणमाह किं तया कीर्त्या या आश्रितान्न बिभर्ति, प्रतिरुणद्धि वाधर्म भागीरथी-श्री-पर्वतवद्भावानामन्यदेव प्रसिद्धेः कारणं न पुनस्त्यागः यतो न खलु गृहीतारो व्यापिनः सनातनाश्च ॥१३॥ टीका-प्रतिरुणद्धि निषेवति ( ते ) मद्यस्त्रीचूतकारेण तया ऐहिकामुत्रिके न भवतः । तथा च विदुरः-- आश्रितान् पीडयित्वा च धर्म त्यक्त्वा सुदूरतः । या कीर्तिः क्रियते मूढः किं तयापि प्रभूतया ॥१॥ अनु च कैतवा यं प्रशंसन्ति यं प्रशंसन्ति मद्यपाः। यं प्रशंसन्ति बन्धक्यो कीर्तिः साकीर्तिपिणी ॥१॥ अथार्थस्य विद्यमानस्य यद्दूषणं तदाह स खलु कस्यापि मा भूदर्थों यासंविभागः शरणागतानाम् ॥ १४ ॥ १ प्रगल्भभृत्या वरकार्यकोविदाः प्रयोजिताः स्वाम्यनुकूलवर्तिनः । महत्सुकार्येष्वनुयायिनो नरास्तान् कार्यपात्रं प्रवदन्ति पंडिताः ॥ २ संभोगयोग्या ललना मनोज्ञा यदङ्गसङ्गालभते मनस्तु । सुखं हृषीकोद्भवसौख्यभाजां ताः कामपानं प्रवदन्ति सूरयः ॥ ३ पुंश्चल्यः ४ आशाभंगः इत्यपि पाठः Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy