SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ धर्मसमुद्देशः । टीका-पुरुषेण नार्या वा तद्रतं नियमलक्षणं आचरितव्यं करणीयं, यस्मिन् कृते संशयतुलां सन्देहं नारोहतः न चटतः । के ? शरीरमनसी कायचित्ते । तथा च चारायणः अशक्त्या यः शरीरस्य व्रतं नियममेव वा। करोत्यातॊ भवेत्पश्चात् पश्चात्तापात्फलच्युतिः॥१॥ अथ त्यागस्य माहात्म्यमाहऐहिकामुत्रिकफलार्थमर्थव्ययस्त्यागः ॥१०॥ टीका-ऐहिक मर्त्यलोकोद्भवं, आमुत्रिकं स्वर्गलोकोत्पन्नं फलं यस्मिन् त्यागे कृते भवति स त्यागः । योऽन्यः स वित्तक्षय एव, ऐहिकामुत्रिकफलवर्जितो व्यसनेन यः क्रियते इति। तथा च चारायणः धूर्ते वंदिनि मल्ले च कुवैद्ये कैतवे शठे। चाटुचारणचौरेषु दत्तं भवति निष्फलम् ॥ १॥ अथापात्रदाने यद्भवति तदाह--- भस्मनि हुतमिवापात्रेष्वर्थव्ययः ॥ ११॥ टीका—न केवलं मुर्ख एवापात्रं, कुभत्ये कुवाहने कुशास्त्रे कुतपस्विनि कुविप्रे कुस्वामिनि यो व्ययः स भस्महोमविधिरेव । ऐहिकामुत्रिकवर्जितो निष्फल एव । तथा च नारदः कुभृत्ये च कुयाने च कुशास्त्रे कुतपस्विनि । कुविप्रे कुत्सिते नाथे व्ययो भस्मकृतं यथा ॥१॥ अथाचार्यमतेन पात्रस्वरूपमाहपात्रं च त्रिविधं धर्मपात्रं कार्यपात्रं कामपात्रं चेति ॥१२॥ टीका-अत्र यद्धर्मपात्रं विद्याधिकमनुष्ठानसहितं दौहित्रादिलक्षणं १ विचित्रभावैर्नयहेतुदर्शनैः सद्धर्ममार्ग प्रतिपादयन्ति ये । मातेव शिक्षामनुबद्धकारिणीं तान् धर्मपात्रं प्रवदन्ति साधवः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy