SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते अथाहिंसकानां यद्भवति तदाहपरत्राजिघांसुमनसां व्रतरिक्तमपि चित्तं स्वर्गाय जायते ॥ ६॥ टीका-परत्र शब्देन सर्वोपि जनः कथ्यते, तत्र विषयेऽजिघांसुमनसामद्रोहचित्तानां यच्चित्तं दयान्वितं भवति तद्रतरिक्तमपि प्रव्रज्यारिक्तमपि स्वर्गार्थ भवतीत्यर्थः । तथा च व्यासः येषां परविनाशाय नात्र चित्तं प्रवर्तते । अव्रता अपि ते माः स्वर्ग यान्ति दयान्विताः॥१॥ अथासत्यागे कृते यद्भवति तदाह स खलु त्यागो देशत्यागाय यस्मिन् कृते भवत्यात्मनो दौःस्थित्यम् ॥ ७॥ टीका-अत्रात्मशब्देन सकलमपि कुटुम्ब ग्राह्यं । तथा च शुक्रःआगतेरधिकं त्यागं यः कुर्यात्तत्सुतादयः । दुःस्थिताः स्युः ऋणग्रस्ताः सोऽपि देशान्तरं व्रजेत् ॥१॥ अथाविद्यमानं यो याचते तत्स्वरूपमाह स खल्वर्थी परिपन्थी यः परस्य दौःस्थित्यं जाननप्यभिलपत्यर्थम् ॥८॥ टीका–स पुरुषः खलु निश्चयेन परिपन्थी शत्रुभूतः' यः किं कुर्यात् ? यो जानन्नपि परस्य दारिद्यमविद्यमानमभिलषति याचते । तथा च वृहस्पति: असन्तमपि यो लौल्याजानन्नपि च याचते । साधुः स तस्य शत्रुर्हि, यद्वानौ दुःखश्चायच्छति ? ॥ १ ॥ अथ तद्वथाशक्त्या यद्भूतं क्रियते तदर्थमाहतद्वतमाचरितव्यं यत्र न संशयतुलामारोहतः शरीरमनसी ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy