SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ धर्मसमुद्देशः । आत्मवित्तानुसारेण त्यागः कार्यों विवकिना। कृतेन येन नो पीडा कुटुम्बस्य प्रजायते ॥१॥ कुटुम्ब पीडयित्वा तु यो धर्म कुरुते कुधीः। न स धर्मो हि पापं तद्देशत्यागाय केवलं ॥२॥ तथा शक्तितः शरीरस्य तपः कार्य । तथा च गुरु: शरीरं पीडयित्वा तु यो व्रतानि समाचरेत् । न तस्य प्रीयते चात्मा तत्तुष्यात्तप आचरेत् ॥ १॥ इत्येवं धर्माधिगमोपायाः सर्वेऽपि पूर्वोक्ताः शक्तित: कर्तव्या इति । अथ सर्वाचरणानां यत्प्रधानमाचरणं तदाहसर्वसत्वेषु हि समता सर्वाचरणानां परमाचरणम् ॥ ४ ॥ टीका-समताशब्देन निर्वैरता कथ्यते सा यस्य पुरुषस्य भवति शत्रूणामप्युपरि तत्तस्य परमाचरणं कृतं कथ्यते । यानीहान्यान्याचरणानि स्नानदानजपहोमपूर्वाणि शुभकृत्यानि तेषां मध्ये येषां निर्वैरता सर्वसत्वानामुपरि दया तत्प्रधानमाचरणं । तथा च नारदः-- यूकामत्कुणदंशान्यपि पाल्यानि पुत्रवत् । एतदाचरणं श्रेष्ठं यत्त्यागो वैरसम्भवः ॥१॥ अथ वधात्मकानां पुरुषाणां यद्भवति तदाह_ न खलु भूतगृहां कापि क्रिया प्रसूते श्रेयांसि ।। ५॥ टीका-भूतानि चतुर्विधानि स्वेदजाण्ड जजरायुजोद्भिजसंज्ञानि तानि यदभिद्रुहन्ति व्यापादयन्ति तेषां काचिदपि क्रिया शुभापि क्रियमाणा निःश्रेयांसि कल्याणानि न प्रसूते न जनयति, कोऽर्थो व्यसनाद् व्यसनमुत्पद्यते । तथा च व्यास: अहिंसकानि भूतानि यो हिनस्ति स निर्दयः । तस्य कर्मक्रिया व्यर्था वर्द्धन्ते वापदः सदा ॥१॥ १ परमं चरणं इति मुद्रितपुस्तके पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy