SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते एतस्मात्कारणादाचार्येणापि तीर्थकरानुत्सृज्य " महाजनो येन गतः स पन्थाः ” इति वचनमाश्रित्य मुने राज्यस्य च नमस्कृतिः कृता । तथा च भगवता व्यासेनोक्तं-- यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ १॥ इति । अथ धर्मलक्षणमाह-- ___ यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः ॥ १॥ टीका-अभ्युदयशब्देनात्र स्वर्गः प्रोच्यते, यतो यस्मात् स्वर्गप्राप्तिर्भवति तथा निःश्रेयसस्य मोक्षस्य सिद्धिर्भवति स धर्मः । न पुनर्यः कौलनास्तिकैरक्तः स्त्रीसेवामद्यपानादिलक्षणः । उक्तं च यतो नारदेन नास्तिकोक्तस्तु यो धर्मस्तं विद्यात्केवलं मलं । सुरापानाद्यतः स्वर्गस्तत्रोक्तश्चानिषवणात् ॥ १॥ अथाधर्मस्य लक्षणमाह अधर्मः पुनरेतद्विपरीतफलः ॥२॥ टीका-अधर्मस्तु पुनरेतस्य पूर्वोक्तस्य विपरीतफलः । यत्र न स्वर्गसिद्धिर्न मोक्षसिद्धिश्च । तथापि स धर्मः कौलैर्नास्तिकैश्च कथ्यते परं न भवति यतः स मद्यमांसस्त्रीनिषेवणद्वारेण । तथा च नारदः मद्यमांसाशनासंगैर्यो धर्मः कौलसम्मतः। केवलं नरकायैव न स कार्यो विवेकिभिः ॥१॥ अथ धर्माधिगमोपायानाह आत्मवत्परत्र कुशलवृत्तिचिन्तनं शक्तितस्त्यागतपसी च धर्माधिगमोपायाः ॥३॥ टीका--त्यागः कार्यः शक्तितः । उक्तं च यतः शुक्रेण१ नैतदुत्तरं समीचीनं । २- नारदः ' इति पुस्तके पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy