________________
धर्मसमुद्देशः।
अहं ब्रुवे-बच्मि । किं तत् ? नीतिवाक्यामृतं-नयवचनपीयूषं । किं कृत्वा ? नत्वा। कं ? मुनि । किमभिधानं ? सोमदेवं । किं विशिष्टं ? सोमसंभवं-सोमः कश्चित्पुरुषविशेषस्तस्मात्संभवो यस्यासौ सोमसम्भवस्तं सोमसंभवं । पुनरपि किंभूतं ? सोम-उमाशब्देन कीर्तिरभिधीयते तया सह वर्तते इति सोमस्तं सोमं । पुनरपि किंभूतं ? सोमसमाकारं--- सोमः कुबेरस्तद्वदाकारो मूर्तिलक्षणो यस्यासौ सोमसमाकारः, यतः सोमेन कुबेरेण साश्रिता सौम्यादिक् उत्तरोच्यते। तथा सोमाभं-सोमश्चन्द्रमास्तद्वदाभा कान्तिर्यस्यासौ सोमाभस्तं सोमाभम् ।
अथ राज्यनमस्कृतिमाहअथ धर्मार्थकामफलाय राज्याय नमः। टीका-अथ सोमदेवमुनिनमस्कृतेरनन्तरं, नमो नमस्कारोऽस्तु । कस्मै ? राज्याय। किंविशिष्टाय ? धर्मार्थकामफलाय। तथा च वल्लभदेवः
गजाश्वपूर्वकं दानं कोशश्चापि निरर्गलः।।
अन्तःपुरं मनोहारि न स्थाद्राज्यं विना नृणां ॥१॥ ननु कस्मादाचार्येण क्षपणकव्रतधारिणा सता तीर्थकरान् परित्यज्य मुनेर्मनुष्यमात्रस्य राज्यस्य च नमस्कृतिः कृता ? तदत्र विषये आचार्यस्याभिप्रायः कथ्यते-एतेनाचार्येण वार्हस्पत्यं औशनस्यं च नीतिशास्त्रद्वयं विलोक्यैतन्नीतिवाक्यामृतं कृतं । यतो बृहस्पतिना मुनेमस्कारः कृतः शुक्रेण तु राज्याय । तत्र तावद्वहस्पतिकृता नमस्कृतिर्लिख्यते
वाचा कायेन मनसा प्रणम्यांगिरसं मुनिम् ।
नीतिशास्त्रं प्रवक्ष्यामि भूपतीनां सुखावहम् ॥ १ ॥ अथ शुक्रः
नमोस्तु राज्यवृक्षाय षाडण्याय प्रशाखिने ।
सामादिचारुपुष्पाय त्रिवर्गफलदायिने ॥ १॥ १ नैष शुक्रनीतौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org