________________
नीतिवाक्यामृते
गुप्तिर्यस्यासवकारः सोमसमश्चासावकारश्च सोमसमाकारस्तं । सोमसंभवमिति–सोमे सोमवंशे संभवति स तथा तं। तथा हि
सोमवंशोद्भवं शुभ्रं जिनं चन्द्रप्रभं ब्रुवे ॥३॥ सोमेन दीव्यतेऽवगम्यते " सर्वे गत्यर्था ज्ञानार्थाः " स तथा तं । मुनिमिति-मनुते जानाति सकल कल्पनाकलितचतुर्दशभुवनोदरवर्तित्रिकालविषयवस्तुविशेषांनिीत मुनिस्तं । इति चतुर्थ आर्हतः पक्षः ॥
अथ तदाराध्यक्षपणकपक्षे व्याख्या--तत्र सोमदेवाख्यं मुनि नत्वा नीतिवाक्यं ब्रुवे इति सम्बन्धः । किंभूतं ? सोमं—सोम इव सोमस्तं सोमं शं ( शां ) तं । सोमसमाकारमिति-सह उमया तपःप्रभावजनितया कीर्त्या वर्तते सोमः कान्तः, समो विषमोन्नतह्रस्वदीर्वादिदोषरहित आकारः शरीरसमुदायो यस्य स कान्तलक्षणकायस्तं । तथा सोमाभमिति-सा साहा ( ? ) लाभलक्षणा श्रेयसी। तथा च
सा तासां सम्पदं संशा इति । आ कीर्तिः कारुण्यता यथा
"लक्ष्मीविषादकारुण्यखेदमंत्रणकर्मसु" उमित्योंकार....षु सम्बन्धदन्त्या इति ध्वनितश्च । सा च आ च उमा च, सोमाभिर्भातीति सौ. माभस्तं । सोमसंभवमिति--सोमो रौद्रः संभवो जन्म यस्य । तथा च ज्योतिःशास्त्रं--
सौम्ये ग्रहबलशालिनि शान्तेऽह्नि शुभोदिते लग्ने उत्पद्यन्ते धनधर्मवीर्यसौभाग्येन पुरुषाः। मुनिमिति-मानयति पूजयति अर्हदाचार्योपाध्यायश्रमणानिति मुनिस्तं । इति पंचमोऽर्थः ॥ __ अथाचार्यकृतां मुनिनमस्कृतिमाह
सोमं सोमसमाकारं सोमाभं सोमसंभवम् । सोमदेवं मुनिं नत्वा नीतिवाक्यामृतं ब्रुवे ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org