________________
धर्मसमुद्देशः ।
मुनिमिति--मिमीते इयत्तया परिच्छिनत्ति विक्रमक्रमेण त्रिभुवनमिति मुनिः । इति द्वितीयो वैष्णवः पक्षः ॥ __ अथ विरंचिपक्षे व्याख्यानं–तत्र मुनिमिति विशेष्यपदं। गम्यतेऽवबुध्यते जगतां नानारूपभूतता परमाणुर्यथावदुत्पत्तिरिति मुनिर्विधाता लोकानां । किं भूतं ? सोम--सभारतीकं । सोमसमाकारमिति--सह ॐकारेण वर्त्तत इति सों सदा वेदाध्ययनादध्यापनात् व्याख्यानाच्च प्रणवपूर्वकत्वात्प्रवृत्तः सप्रणवः । तथा हि
"उद्गीथः प्रणवो यासा" मित्यादि ।
"क्षरत्यनेकृतं ब्रह्म" त्याद्यपि वा। तदा तन्नयव्यापारः सों। असमाना अनन्यसदृशः अकाराः परमाणुभिरभिव्याप्ताः कार्यवस्तुकारणानि यस्य स तथा सा चोमा च समाकारश्च तं । सोमाभमिति-उमा कीर्तिः, आभा कान्तिः सह ताभ्यामुमामाभ्यां वर्तते इति सोमाभ इति कान्ति कीर्तियुक्तस्तं । सोमस्य यज्ञस्य संभवः सम्बन्धो यस्य । तथा च___ सम्बन्धः सम्भवः प्रोक्ता उत्पत्तिरपि सम्भवः ॥३॥ यदि वा सोमो यज्ञः सम्भवत्यस्मात् यज्ञानां तस्यैवादिकर्तृकत्वात् । अत एव सोमदेवमिति–सोमेन सोमवल्लीरसेन दीव्यति क्रीडति सोमदेवस्तं सोमदेवं । तथा च
ययौ यज्ञे सुरैः सार्द्ध सोमं प्रीतः प्रजापतिः॥३॥ तं नत्वा नीतिवाक्यामृतं ब्रुवे । इति तृतीयः पक्षो ब्रायः ॥
अथाहत्पक्षे व्याख्या-सोमाभमिति विशेष्यपदं । सोमस्येवाभा यस्यासौ सोमश्चन्द्रः, आभा प्रभा एव सोमाभा इत्यष्टमतीर्थकरं चन्द्रप्रभस्वामिनं जिनं नत्वा नीतिवाक्यामृतं ब्रुवे । किं भूतं ? सोमं सकीर्तिकं । सोमसमाकारमिति--सोमेन चन्द्रमसा समः सदृशः सकललोकलोचनानन्दनः प्रियदर्शनत्वात् उपमायां वा समंशब्दः तत्र भव्यकुमुदानां च प्रतिबोधकत्वे निरूप्ये सोमसमः, न विद्यते कारा सकलसंसारदुःखकरैकरूपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org