________________
नीतिवाक्यामृते
सोमेन दीव्यति द्युतिमान् भवति सोमेनोपलक्षितो देवः सोमदेवश्चन्द्रमौलिस्तं। मुनिमिति “ मीञ् हिंसायां" मीनाति हिनस्ति काले कालाग्निरुद्ररूपेण चराचराणि भूतानीति मुनिस्तं । इत्यादिसंज्ञाशब्दानां निपातकालसिद्धिः । तमित्थंभूतं देवं नत्वा नीतिवाक्यामृतं ब्रवे। इत्येकः पक्षे महेश्वरः ।। ___ अथाच्युतं प्रति व्याख्या-तत्र विशेष्यं पदं सोमदेवमिति-सोमसंबंधात् सोमशब्देन यज्ञोऽप्युपर्यते, सोमे यज्ञे दीव्यते देववाक्यैः स्तूयते यथा सोमदेवस्य यज्ञस्य देवप्रभुः क्रतुपुरुष इति यावत् तं नत्वा नीतिवाक्यामृतं ब्रुव इति संबंधः । कथंभूतं ? सोम--सलक्ष्मीकं । सोमसमाकार----उकारो ब्रह्मा मकारो महेश्वरस्तथा चागमः;
अकारेण भवेद्विष्णुर्मकारेण महेश्वरः।
उकारश्च स्वयं ब्रह्मा प्रणवे त्रितयं स्थितम् ॥ १॥ एवं उश्च मश्च उं सह उभ्यां वर्तत इति सों त्रयीमूर्तिः। यथा चागमः।
यो ब्रह्मा स स्वयं विष्णुर्यो विष्णुः सं महेश्वरः । एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥१॥ कालिदासोऽप्येवमाह-" नमस्त्रिमूर्तये तुभ्य " मित्यादि । असमाकारमिति-असमा महाप्रमाणा आकाराः प्रादुर्भावा मत्स्यकूर्माद्याकृतिग्रहणानि यस्य तत्तथा। सों चासौ असमाकारश्च सोमसमाकारस्तं सोमसमाकारं । सोमाभमिति-उमा अतसी तदवयवेषु पुष्पेष्वपि उमाशब्द उपचर्यते तथा सुरतिविचकिलप्राय इति, उमावदाभोमाभा सहोमाभया वर्त्तत इति सोमाभः कृष्णवर्णस्तं । सोमसंभवं-सोमाः सकीर्तिका: संभवा वामनपरशुरामादयो जन्मावतारा यस्य स तथा तं।
१ विष्णुपक्षे सोमसमाकार मित्यस्यासों, असमाकारं इति पदद्वयम् । २ कृष्णशब्दोऽयं द्विरुक्तः पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org